________________
हे तुझ छ
तत्राष्टविधबन्धकेन जन्तुना यदेकेनाध्यवसायेन चित्रतागर्भेण गृहीतं दलिकं तस्याष्टौ भागा भवन्ति, सप्तविधबन्धकस्य तु सप्त भागाः, षड्विधबन्धकस्य षड्भागाः, एकविधबन्धकस्य एको भागः ॥ २४ ॥
(उ०)-तदेवं कृता पुद्गलानां मिथः संबन्धहेतुभूतस्य स्नेहस्य प्ररूपणा | अथ बन्धनकरणसामर्थ्याद्वध्यमानानां मूलोत्तरप्रकृतीनां विभागकारणमुपदर्शयन् वैविक्त्येन स्पष्टयन्नाह - मूलोत्तरप्रकृतीनां 'अहवा पयडी भेउ ति भाष्यकृद्वचनात् प्रकृतिशब्दस्य भेदपर्यायत्वान्मूलोत्तरभेदानां कर्मसम्बन्धिनामनुभाग विशेषतो ज्ञानावरकत्वादिस्वभाववैचित्र्याद् भेदो भवति । अनुभागशब्दोऽत्र स्वभावपर्यायः " अणुभागो त्ति सहावो" इति चूर्णिकृद्वचनात् । भवति हि स्वभावभेदाद्वस्तुभेदो यथा तृणदुग्धादीनां तथेह दलिकस्य कर्मरूपतया तुल्यस्यापि स्वभावभेदाद् भेद इति । तथाऽविशेषिता - अविवक्षिता रसप्रकृतिः, उपलक्षणात् स्थित्यादयोऽपि यस्मिन् स प्रकृतिबन्धो ज्ञातव्यः । तुशब्दस्याधिकार्थसंसूचकत्वादविवक्षितरसप्रकृतिप्रदेशः स्थितिबन्धः, अविवक्षितप्रकृतिस्थितिप्रदेशो रसबन्धः, अविवक्षितप्रकृतिस्थितिरसः प्रदेशबन्ध इत्यपि द्रष्टव्यम् । अत्र च कर्मणां प्रकृत्यादयो मोदकदृष्टान्तेन लक्षणीयाः । तथाहि - मोदकस्य यथा वातविनाशकत्वादिस्वभावः प्रकृतिस्तथा कर्मणां ज्ञानावर कत्वादिखभावः प्रकृतिः, यथा च तस्य स्थितिरेकद्विदिनाद्यवस्थानरूपा तथा कर्मणां स्थितिः प्रतिनियतकालावस्थानरूपा, यथा च तस्य रसः स्निग्धमधुरादिस्तथा कर्मणामपि शुभाशुभादिः, यथा च तस्य प्रदेशा एक द्विप्रसृत्यादिप्रमाणास्तथा कर्मणामपि बहुतरबहुतमादिविभागरूपाः । यत्तु - “ठिइबंधु दलस्स ठिई पपसबंधो परसग्रहणं जं । ताण रसो अणुभागो तस्समुदाओ पगइबंधो" ॥ इति पञ्चसङ्ग्रहे प्रकृतिबन्धलक्षणमुक्तं, तत्काषायिककर्म प्रतीत्य संभवदपि नेहोपयुज्यते, स्थित्यादिसमुदायरूपप्रकृतिवन्धचिन्तने स्थित्याद्यंशाविवक्षणस्य कर्तुमशक्यत्वादिति । प्रकृतिवन्धे च विंशत्यधिकं शतमधिक्रियते ।
Siwak