________________
कर्मप्रकृतिः ॥ ६६ ॥
अब यह द
मासादिकं कालं यावत् । तथा तस्यैव यो रसः स्निग्धमधुरादिः कस्यचिदेकस्थानको परस्य द्विस्थानक इत्यादि । तथा तस्यैव प्रदेशाः | कणिक्कादिरूपाः कस्यचिदेकप्रसृतिप्रमाणाः कस्यचिद् द्विप्रसृतिप्रमाणा इत्यादि । तथा कर्मणोऽपि किञ्चिज्ज्ञानमावृणोति, किञ्चिद्दर्शनम्, किञ्चित्सुखदुःखे जनयति, किश्चित् मोहयतीत्येवंस्वरूपा प्रकृतिः । तथा स्थितिस्तस्यैव कर्मणः कस्यचित् त्रिंशत्सागरोपमकोटीकोटीप्रमाणा, अपरस्य सप्ततिसागरोपमकोटीकोटीप्रमाणा इत्यादि । तथा रसः कस्यचिदेकस्थानकोऽपरस्य द्विस्थानक इत्यादि । तथा प्रदेशाः कस्यचिद्वहुतराः, कस्यचिच्च बहुतमा इति । तत्र प्रकृतिभेदत एव कर्मणां मूलोत्तरविभागो भवति नान्यथेत्यावेदयन्नाह - 'मूल' ति - इह प्रकृतिशब्दो भेदपर्यायोऽप्यस्ति । तथा चाह भाष्यकृत् - "अहवा पयडी मे भो” इति । ततो 'मूलोत्तर प्रकृतीनां - मूलोतरभेदानां कर्मणः संबन्धिनां 'अनुभागविशेषतः' - स्वभावविशेषतो ज्ञानावारकत्वादिलक्षणाद् भेदो भवति नान्यथा । अनुभागशब्दवात्र स्वभावपर्यायोऽवगन्तव्यः । तदुक्तं चूर्णो- "अनुभागो त्ति सहायो" इति । इह बन्धनकरणे प्रकृतिबन्धादयः प्रत्येकमुपरि सप्रपञ्चं वक्तव्याः । प्रकृत्यादयश्च प्रतिकर्म संकीर्णा इति कचिद्वयामुह्येत अतस्तन्मोहापनोदाय प्रकृतिबन्धं तुशब्दोपलक्षणद्वारेण अन्यांश्च स्थितिबन्धादीन् वैविक्त्येन स्पष्टयन्नाह - 'अविसेसिय' इत्यादि । रसः स्नेहोऽनुभाग इत्येकार्थः । तस्य प्रकृतिः स्वभावः । अविशेषिताऽविवक्षिता रसप्रकृतिः, उपलक्षणत्वात् स्थित्यादयोऽपि यस्मिन्नविवक्षिताः स बन्धोऽविशेषितरसप्रकृतिः प्रकृतिबन्धो ज्ञातव्यः । तुशब्दस्याधिकार्थसंसूचनात् अविवक्षितरसप्रकृतिप्रदेशः स्थितिबन्धः, अविवक्षितप्रकृतिस्थितिप्रदेशो रसबन्धः, अविवक्षितप्रकृतिस्थितिरसः प्रदे|शबन्ध इत्यपि द्रष्टव्यम् । प्रकृतिबन्धे च यावन्त्यः प्रकृतयो बन्धमायान्ति यश्च यासां बन्धं प्रति खामी तदेतत्सर्वं शतकादवसेयम् । प्रकृतिप्रदेशबन्धौ च योगतो भवतः "जोगा पयडिपपसं" इति वचनात् । तत्र प्रकृतिबन्ध उक्तः । साम्प्रतं प्रदेशबन्धो वक्तुमवसरप्राप्तः ।
sanskaa
प्रकृति
बन्धप्ररूपणा.
॥ ६६ ॥