SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ प्रकृति बन्धप्ररूपणा. भूयस्कारादिविशेषश्चात्रत्योऽग्रे वक्ष्यते । अयं च प्रकृतिबन्धश्चतुर्धा-जघन्योऽजघन्य उत्कृष्टोऽनुत्कृष्टश्च । तत्र जघन्यः प्रकृतिबन्ध कर्मप्रकृतिः । | उपशान्तमोहादिगुणस्थानत्रये, तत्रैकस्या एव प्रकृतेर्बन्धात् , प्रकृतिबन्धमाश्रित्य चैकप्रकृतिबन्धस्यैव सर्वस्तोकत्वेन जघन्यत्वात् । उप॥६७॥ शान्तमोहाद् भ्रष्टस्याजघन्यो बन्धः,मूलप्रकृतीरधिकृत्य षडादीनामुत्तरप्रकृतीरधिकृत्य सप्तदशादीनां बन्धसंभवात् । संज्ञिनि मिथ्यादृष्टावुत्कृष्टः, मूलप्रकृतीनामष्टानामुत्तरप्रकृतीनां चतुःसप्ततेबन्धात् । ततः स्तोकस्तोकतराणां मूलप्रकृतीनामुत्तरप्रकृतीनां वा यो बन्धः सो| ऽनुत्कृष्टः । उत्कृष्टबन्धात् परिणामहासेन पततोऽनुत्कृष्टो बन्धः सादिः । जघन्यबन्धाद्वा प्रतिपततोऽजघन्यो बन्धः सादिः । इत्येवं | सादित्वविशेषादजघन्यानुत्कृष्टयोआंदो भावनीयः । यद्वा पूर्वपश्चिमदिशोरिवावधिभेदाज्जघन्यमवधीकृत्य हि यावदुत्कृष्टस्तावदजघन्यः, उत्कृष्टमवधीकृत्य च यावज्जघन्यस्तावदनुत्कृष्ट इति । अनेनैव विशेषहेतुना सादित्वविशेषाभावेऽप्यजघन्यानुत्कृष्टभेद उपलक्ष्यते । यत्तु-"उक्कोसा परिवडिए साइ अणुक्कोसओ जहन्नाओ। अब्बंधाओ वियरो तदभावे दो वि अविसेसा ॥” इत्युक्तं तत्सादित्वकृतस्फुटवि शेषोपलम्भभावाभिप्रायेण | तत्राधुवबन्धिनीनां सातवेदनीयादीनां जघन्यादयश्चत्वारोऽपि भेदाः सादयोऽध्रुवाश्च भवन्ति । ध्रुव४बन्धिनीनां तु संभविनावजघन्यानुत्कृष्टावनादी ध्रुवौ साद्यधुवावपि च भवतः । जघन्योत्कृष्टौ तु ध्रुवबन्धिनीनामपि कादाचित्कत्वेन १६ साद्यधुवावेव भवतः। तथा मूलप्रकृतिष्वायुषो बन्धः सादिरध्रुव एव च, अध्रुवबन्धित्वात् । वेदनीयस्यानादिरध्रुवो ध्रुवश्च, तत्रा| नादित्वं सार्वदिकत्वात् , ध्रुवोऽभव्यानां कदापि व्यवच्छेदाभावात् , अध्रुवो भव्यानां अयोगिनि व्यवच्छेदात् । शेषकर्मणां साद्यादिश्वलातुर्विधः । तत्रोपशान्तमोहगुणस्थानात् पततः सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाधुवावभव्यभव्यापेक्षया । उत्तरप्रकृतिषु ध्रुवबन्धिः नीनां सर्वासामपि (४७) साद्यादिश्चतुर्विधः । तत्र स्वस्वाबन्धस्थानभ्रष्टानां सादिः, अबन्धस्थानं च तासां मध्ये मिथ्यात्वस्य (साखाद Sias
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy