________________
धर्मप्रकृतिः
॥ ६४ ॥
| रपि कण्डकमात्राण्यनन्तभागवृद्धानि वाच्यानि । तत्समुदायस्तृतीयं कण्डकम् । एवमसंख्येयभागान्तरितानि अनन्तभागवृद्धानि कण्डकानि तावद्वाच्यानि यावदन्तरालभाविनामसंख्येय भागवृद्धानामपि स्थानानां कण्डकं परिसमाप्यते । ततश्चरमादसंख्येयभागाधिकात्स्थानात् पराणि यथोत्तरमनन्तभागवृद्धानि कण्डकमात्राणि शरीरस्थानानि वाच्यानि । ततः परमेकं संख्येयभागवृद्धं स्थानम् । ततो मूला| दारभ्य यावन्ति स्थानानि प्रागतिक्रान्तानि तानि तथैवाभिधाय पुनरप्येकं संख्येयभागाधिकं स्थानं वक्तव्यम् । एतानि चैवं संख्येयभागाधिकानि तावद्वाच्यानि यावत् कण्डकं परिपूर्यते । तत उक्तक्रमेण भूयोपि संख्येयभागाधिकस्थानप्रसङ्गे संख्येयगुणाधिकं स्थानमेकं वाच्यम् । ततो भूयोऽपि मूलादारभ्य तावन्ति शरीरस्थानानि वाच्यानि । ततः पुनरप्येकं संख्येयगुणाधिकं स्थानं वाच्यम् । अमून्यप्येवं संख्येयगुणाधिकानिं स्थानानि तावद्वक्तव्यानि यावत्कण्डकमात्राणि भवन्ति । ततः पूर्वपरिपाठ्या संख्येयगुणाधिकस्थानप्रसङ्गेऽसंख्येयगु| णाधिकं स्थानं वक्तव्यम् । ततः पुनरपि मूलादारभ्य प्रागतिक्रान्तान्यभिधेयानि । ततो भूयोऽप्येकमसंख्येयगुणाधिकं वक्तव्यम् । एवममून्यसंख्येयगुणाधिकानि स्थानानि कण्डकमात्राणि वक्तव्यानि । ततः पूर्वपरिपाट्या संख्येयगुणाधिकस्थानप्रसङ्गेऽनन्तगुणाधिकमेकं वक्तव्यम् । ततः प्रागतिक्रान्तसर्वाभिधानादिक्रमेणानन्तगुणाधिकान्यपि कण्डकमात्राणि वक्तव्यानि । तेषामुपरि पञ्चवृद्ध्याकाकानि स्थानानि भूयोऽपि वक्तव्यानि । यच्चनन्तगुणवृद्धं स्थानं तन्न प्राप्यते, पदस्थानकस्य परिसमाप्तत्वात् । एवमसंख्येयानि पदस्थानकानि शरीरस्थानेषु भवन्ति । सर्वाण्यपि च शरीरस्थानान्यसंख्येयलोकाकाशप्रदेशप्रमाणानि भवन्ति । उक्ता नामप्रत्ययस्पर्धकप्ररूपणा । अथ | प्रयोगप्रत्ययस्पर्धकप्ररूपणा क्रियते — तत्र प्रयोगो योगः प्रकृष्टो योग इति व्युत्पत्तेः, तत्स्थानवृद्ध्या यो रसः कर्मपरमाणुषु केवलयोगप्रत्ययतो बध्यमानेषु परिवर्धते स्पर्धकरूपतया तत्प्रयोगप्रत्ययं स्पर्धकम् । उक्तं च पञ्चसंग्रहे - " होइ पओगो जोगो तट्ठाणविवड्ढणाइ
नामप्रत्ययप्ररूपणा.
॥ ६४ ॥