SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ aa भागाः । ततो द्वितीयशरीरस्थानस्य प्रथमवर्गणायामनन्तगुणाः । तेभ्योऽपि तृतीयशरीरस्थानस्य प्रथमवर्गणायामनन्तगुणाः । एवमनन्तगुणया श्रेण्या सर्वाण्यपि स्थानानि नेतव्यानि । अत्रान्तरे शरीरपरमाणूनामेव तत्तद्बन्धनयोग्यानामल्पबहुत्वमुच्यते-तत्रौदारिकौदारिकबन्धनयोग्याः पुद्गलाः सर्वस्तोकाः, तेभ्य औदारिकतैजसबन्धनयोग्या अनन्तगुणाः, तेभ्योऽप्यौदारिककार्मणबन्धनयोग्या अनन्तगुणाः, तेभ्योऽप्यौदारिकतैजसकार्मणबन्धनयोग्या अनन्तगुणाः । तथा वैक्रियवैक्रियबन्धनयोग्याः सर्वस्तोकाः, तेभ्योऽपि वैक्रियतैजसबन्धनयोग्याः पुद्गला अनन्तगुणाः, तेभ्योऽपि वैक्रियकार्मणबन्धनयोग्या अनन्तगुणाः, तेभ्योऽपि वैक्रियतैजसकार्मणबन्धनयोग्या अनन्तगुणाः । तथा आहारकाहारकबन्धनयोग्याः पुद्गलाः सर्वस्तोकाः, तेभ्य आहारकतैजसबन्धनयोग्या अनन्तगुणाः, तेभ्योऽप्याहारककार्मणबन्धनयोग्या अनन्तगुणाः, तेभ्योऽप्याहारकतै जसकार्मणबन्धनयोग्या अनन्तगुणाः, तेभ्योऽपि तैजसतैजसबन्धनयोग्या अनन्तगुणाः, तेभ्योऽपि तैजसकार्मणबन्धनयोग्या अनन्तगुणाः, तेभ्योऽपि कार्मणकार्मणबन्धनयोग्या अनन्तगुणा इति । साम्प्रतं स्थानप्ररूपणावसरः — तत्र प्रथमस्पर्धकादारभ्याभव्यानन्तगुणसिद्धानन्तभाग कल्पैरनन्तैः स्पर्धकैरेकं प्रथमं शरीरप्रायोग्यं स्थानं भवति । ततस्ततिभिरेव स्पर्धकैरनन्तभागवृद्धैर्द्वितीयं शरीरस्थानं, भूयस्ततिभिरेव स्पर्धकैरनन्तभागवृद्धैस्तृतीयं शरीरस्थानं, एवं निरन्तरमनन्तभागवृद्धानि शरीरस्थानान्यङ्गुलमात्रक्षेत्रासंख्येयभागगतप्रदेश राशिप्रमाणानि वाच्यानि । एतानि समुदितान्येकं कण्डकमभिधीयते, उक्तप्रमाणसंख्याया एव समये कण्डकत्वेन परिभाषणात् । तस्माच्च कण्डकादुपरि यच्छरीरस्थानं तत्कण्डकगतच रमशरीरस्थानापेक्षयाऽसंख्येयभागवृद्धम् । तस्मात् पराण्यन्यानि शरीरस्थानानि यथोत्तरमनन्तभागवृद्धानि कण्डकमात्राणि वाच्यानि । एतानि च समुदितानि द्वितीयकण्डकम् । तस्मादुपरि यदन्यच्छरीरस्थानं तद्वितीयकण्डकगतचरमशरीरस्थानापेक्षयाऽसंख्येयभागवृद्धम् । ततः पुन
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy