SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ युक्ताः पुद्गलाः शरीरयोग्या न भवन्ति-पञ्चदशान्यतमबन्धनयोग्या न भवन्तीत्यर्थः। नापि द्वाभ्यां स्नेहाविभागाभ्यां युक्ताः, नापि सं-1 कर्मप्रकृतिः । ख्येयैर्नाप्यसंख्येयै प्यनन्तैः, किं तु सर्वजीवानन्तगुणैरनन्तानन्तैरेव, तेषां समुदायः प्रथमा वर्गणा, सा च जघन्या। तत एकैकावि- नामप्रत्यय प्ररूपणा. ॥६३॥ |भागवृद्धथा निरन्तरं तावद्वर्गणा वाच्या यावदभव्यानन्तगुणसिद्धानन्तभागकल्पा भवन्ति । एतासां समुदाय एकं स्पर्धकम् । इत ऊर्ध्व| मेकादिस्नेहाविभागाधिकाः परमाणवो न प्राप्यन्ते, किंतु सर्वजीवानन्तगुणैरनन्तानन्तैरेवाधिकाः पाप्यन्ते । तेषां समुदायो द्वितीयस्प|र्धकस्य प्रथमा वर्गणा । तस्यां च स्नेहाविभागाः प्रथमस्पर्धकप्रथमवर्गणागतस्नेहाविभागेभ्यो द्विगुणा भवन्ति । तत एकैकस्नेहाविभागवृ था निरन्तरं वर्गणास्तावद्वाच्या यावदभव्यानन्तगुणसिद्धानन्तभागकल्पा भवन्ति । तासां समुदायो द्वितीयं स्पर्धकम् । तत एकादिस्नेहाविभागवृद्धाः परमाणवो न प्राप्यन्ते, किं तु सर्वजीवानन्तगुणैरनन्तानन्तैः स्नेहाविभागैर्वृद्धाः प्राप्यन्ते । तेषां समुदायस्तृतीयस्पर्धकस्य प्रथमा वर्गणा । तस्यां स्नेहाविभागाः प्रथमस्पर्धकसत्कप्रथमवर्गणातत्रिगुणाः। तत एकैकस्नेहाविभागवृद्ध्या प्रागुक्तप्रमाणा वर्गणा वाच्याः। तासां समुदायस्तृतीय स्पर्धकम् । एवं यतिसंख्यं स्पर्धकं चिन्त्यते तदादिवर्गणायां प्रथमस्पर्धकप्रथमवर्गणागतस्नेहाविभागास्तत्तत्संख्यगुणिता लभ्यन्ते । स्पर्धकानि च तान्यभव्येभ्योऽनन्तगुणानि सिद्धानन्तभागकल्पानि भवन्ति । अन्तराणि चैतेषां रूपोनस्पर्धकतुल्यानि, यतश्चतुर्णामन्तराणि त्रीण्येव भवन्तीति । तथा वर्गणास्वानन्तर्येण द्वे वृद्धी भवतः एकैकाविभागवृद्धिरनन्तानन्ताविभागवृद्धिश्च । तत्रैकैकाविभागवृद्धिरेकस्पर्धकस्थानां वर्गणानां यथाक्रम, अनन्तान्ताविभागवृद्धिश्च पाश्चात्यस्पर्धकगतचरमवर्गणापेक्ष| याग्रिमस्य स्पर्धकस्यादिवर्गणायाः। पारम्पर्येण तु प्रथमस्पर्धकमथमवर्गणापेक्षया षडपि वृद्धयो ज्ञेयाः । तदेवं कृता वर्गणास्पर्धकान्तर-२॥६३ ॥ प्ररूपणाः । अथ वर्गणागतपुद्गलस्नेहाविभागसमुदायप्ररूपणा क्रियते-तत्र प्रथमशरीरस्थानस्य प्रथमायां वर्गणायां सर्वस्तोकाः स्नेहावि CECHOIROADIES
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy