SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ what लपुद्गलगताः स्नेहाविभागाः सर्वस्तोकाः । ततस्तस्यैव स्नेहप्रत्ययस्पर्धकस्योत्कृष्टवर्गणायामनन्तगुणाः, तेभ्योऽपि नामप्रत्ययस्पर्धकस्य जघन्यवर्गणायामनन्तगुणाः, तेभ्योऽपि तस्यैवोत्कृष्टवर्गणायामनन्तगुणाः, तेभ्योऽपि प्रयोगप्रत्ययस्पर्धकस्य जघन्यवर्गणायामनन्तगुणाः, तेभ्योऽपि तस्यैवोत्कृष्टवर्गणायामनन्तगुणाः । उक्तं च- "तिण्डं पि फट्टगाणं जहण्णउक्कोसगा कमा ठविडं । या गुणाओ वग्गणा हफड्डाओ" ॥ सम्प्रति गाथार्थो विव्रियते नामप्रत्ययेषु प्रयोगप्रत्ययेष्वपि च स्पर्धकेषु अविभागवर्गणादयः प्राग्वनेयाः । तथाहि - स्नेहप्रत्ययस्पर्धक इवात्रापि अविभागवर्गणा एकैकस्नेहा विभागवृद्ध परमाणुवर्गणा अनन्ताः । तथा स्तोकेन स्नेहेन बद्धाः पुद्गला बहव इतरे स्तोकाः स्तोकतराः । यच्च 'असंखलोगे दुगुणहीणा' इति तदत्रासंभवान्न संबध्यते । स्नेहप्रत्ययस्पर्धकेऽपि | हि तद् यथासंभवं स्तोकमेव कालं यावद् योजितम्, न पुनः सर्वत्रापि । तथा 'सिं' ति - एषां स्नेहप्रत्ययनामप्रत्ययप्रयोगप्रत्ययस्प|धकानां प्रत्येकं स्वके- आत्मीये जघन्योत्कृष्टे वर्गणे बुद्ध्या पृथक् कृत्वा ततः क्रमेण तासु 'धणिया देसगुण' त्ति धणिया निचिता | देशगुणा निर्विभागभागरूपाः सकलपुद्गलगतस्नेहाविभागा इत्यर्थः, तेऽनन्तगुणनया अनन्तगुणिततया ज्ञातव्याः । तदेवं कृता पुद्गलानां परस्परं संबन्धहेतुभूतस्य स्नेहस्य प्ररूपणा ॥ २३ ॥ (उ० ) —तदेवं कृता स्नेहप्रत्ययस्पर्धकप्ररूपणा, अथ नामप्रत्ययस्पर्धकप्रयोगप्रत्ययस्पर्धकप्ररूपणां कर्तुमाह – इह नामप्रत्ययस्पर्द्धकप्ररूपणायां षडनुयोगद्वाराणि - अविभागप्ररूपणा, वर्गणाप्ररूपणा, स्पर्धकप्ररूपणा, अन्तरप्ररूपणा, वर्गणापुद्गलस्नेहाविभाग सकलसम्मुदायप्ररूपणा, स्थानप्ररूपणा चेति । तत्रैौदारिकादिशरीरपञ्चकप्रायोग्यानां परमाणूनां यो रसः केवलिमज्ञाच्छेदनकेन च्छिद्यते छिन्चा च निर्विभागा भागाः क्रियन्ते तेऽविभागा गुणपरमाणवो भावपरमाणवो वाऽभिधीयन्ते । एषाऽविभागप्ररूपणा । तत्रैकेन स्नेहाविभागेन Nakath
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy