SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ अङ्गुलमात्रक्षेत्रासंख्येयभागगतप्रदेशराशिप्रमाणानि तानि सर्वाण्यपि यथोत्तरमनन्तभागवृद्धान्यवसेयानि । ततो भूयोऽप्येकमसंख्येय-) कर्मप्रकृतिःभागाधिकं शरीरस्थानं भवति । एवमनन्तभागाधिकः कण्डकप्रमाणैः शरीरस्थानैर्व्यवहितानि असंख्येयभागाधिकानि शरीरस्था-1 | नानि वावद्वक्तव्यानि यावत्तान्यपि कण्डकमात्राणि । एतानि च समुदितानि द्वितीयं कण्डकम् । तस्माच द्वितीयात् कण्डकादुपरि । प्ररूपणा. | यदन्यच्छरीरस्थानं तत्पुनरपि द्वितीयकण्डकगतचरमशरीरस्थानापेक्षयाऽनन्तभागवृद्धम् । ततः पराणि यथोत्तरमनन्तभागवृद्धानि कण्डक मात्राणि शरीरस्थानानि वाच्यानि । ततः परमेकं संख्येयभागवृद्धं स्थानम् । ततो मूलादारभ्य यावन्ति स्थानानि प्रागतिक्रान्तानि | तावन्ति तथैवाभिधाय पुनरप्येकं संख्येयभागवृद्धं स्थानमभिधानीयम् । एवं वक्ष्यमाणक्रमेण षट्स्थानकवृद्धया शरीरस्थानानि तावदक्तव्यानि यावदसंख्येयलोकाकाशप्रदेशप्रमाणानि भवन्ति । उक्ता नामप्रत्ययस्पर्धकप्ररूपणा । सांप्रतं प्रयोगप्रत्ययस्पर्धकमरूपणा क्रियते-तत्र प्रयोगो योगः, तत्स्थानवृद्धया यो रसः कर्मपरमाणुषु केवलयोगप्रत्यतो बध्यमानेषु परिवर्धते स्पर्धकरूपतया तत्प्रयोगप्रत्ययस्पर्द्धकम् । उक्तं च-"होइ पओगो जोगो तहाणविवड्ढणाए जो उ रसो। परिवड्ढेर जीवे पयोगफहूं तयं | बैंति" तस्य पश्चानुयोगद्वाराणि, तद्यथा-अविभागप्ररूपणा, वर्गणाप्ररूपणा, स्पर्धकपरूपणा, अन्तरप्ररूपणा, स्थानप्ररूपणा चेति । एताश्च यथा नामप्रत्ययस्पर्धके प्रागभिहितास्तथैवात्राप्यवगन्तव्याः। तथाऽत्र प्रथमस्थानसत्कप्रथमवर्गणायां सकलपुद्गलस्नेहाविभागाः सर्वस्तो| काः। तेभ्यो द्वितीयस्थानसत्कप्रथमवर्गणायामनन्तगुणाः। तेभ्योऽपि तृतीयस्थानसत्कप्रथमवर्गणायामनन्तगुणाः। एवं तावन्नेयं यावदन्तिमं स्थानम् । तथा च प्रयोगप्रत्ययस्पर्धकमेवाधिकृत्यान्यत्राप्युक्तं- "अविभागवग्गफगअंतरठाणार पत्थ जहपुब्धि । ठाणाइ वग्गणाओA ॥६२॥ अणंतगुणणाउ गच्छति ॥" अत्रादिशब्दात्कण्डकादिपरिग्रहः । इदानीमल्पबहुत्वमुच्यते-स्नेहप्रत्ययस्पर्धकस्य जघन्यवर्गणायां सक NISEDISPOILSYOTISHED 20-DROSCARRIOUSE
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy