SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ OSODEO पुद्गलस्नेहाविभागसमुदायप्ररूपणा क्रियते तत्र प्रथमस्य शरीरस्थानस्य प्रथमायां वर्गणायां स्नेहाविभागाः स्तोकाः, ततो द्वितीयस्य | शरीरस्थानस्य प्रथमवर्गणायामनन्तगुणाः, तेभ्योऽपि तृतीयशरीरस्थानस्य प्रथमवर्गणायामनन्तगुणाः, एवमनन्तगुणया श्रेण्या सर्वाण्यपि स्थानानि नेतव्यानि । शरीरस्थानानि च वक्ष्यमाणस्पर्धक(कण्डक)संख्याप्रमाणानि । संप्रति शरीरपरमाणूनामेव तत्तद्वन्धनयोग्यानामल्पबहुत्वमभिधीयते-तत्रौदारिकौदारिकबन्धनयोग्याः पुद्गलाः सर्वस्तोकाः, तेभ्य औदारिकतैजसबन्धनयोग्या अनन्तगुणाः, तेम्योऽप्यौदारिककार्मणबन्धनयोग्या अनन्तगुणाः, तेभ्योऽप्यौदारिकतैजसकामणबन्धनयोग्या अनन्तगुणाः। तथा वैक्रियवैक्रियब-15 न्धनयोग्याः पुद्गलाः सर्वस्तोकाः । तेभ्योऽपि वैक्रियतैजसबन्धनयोग्या अनन्तगुणाः, तेभ्योऽपि वैक्रियकार्मगवन्धनयोग्या अनन्त-| गुणाः, तेभ्योऽपि वैक्रियतैजसकार्मणबन्धनयोग्या अनन्तगुणाः । तथा आहारकाहारकबन्धनयोग्याः पुद्गलाः सर्वस्तोकाः, तेभ्योऽप्याहारकतैजसबन्धनयोग्या अनन्तगुणाः, तेभ्योऽप्याहारककार्मणबन्धनयोग्या अनन्तगुणाः, तेभ्योप्याहारकतैजसकामणबन्धनयो-17 ग्या अनन्तगुणाः, तेभ्योऽपि तैजसतैजसबन्धनयोग्या अनन्तगुणाः, तेभ्योऽपि तैजसकार्मणबन्धनयोग्या अनन्तगुणाः, तेभ्योऽपि कार्मणकार्मणवन्धनयोग्या अनन्तगुणा इति । सांप्रतं स्थानप्ररूपणावसरः। तत्र प्रथमं स्पर्धकमादौ कृत्वाऽभव्येभ्योऽनन्तगुणैः सिद्धा-12 नन्तभागकल्पैरनन्तः स्पर्धकैरेकं प्रथमं शरीरप्रायोग्यं स्थानं भवति । ततस्ततिभिरेव स्पर्धकैरनन्तभागवृद्धद्वितीयं शरीरस्थानं भवति । पुनस्ततिभिरेव स्पर्धकैरनन्तभागवृद्धस्तृतीयं शरीरस्थानम् । एवं निरन्तरं पूर्वस्मात् पूर्वस्मादुत्तरोत्तराणि अनन्तभागवृद्धानि शरीरस्थाना-19 न्यङ्गुलमात्रक्षेत्रासंख्येयभागगतप्रदेशराशिप्रमाणानि वाच्यानि । एतानि च समुदितानि एकं कण्डकमभिधीयते । तस्माच्च कण्डकादुपरि यदन्यच्छरीरस्थानं तत्प्रथमकण्डकगतचरमशरीरस्थानापेक्षयाऽसंख्येयभागवृद्धम् । तस्मात्पराणि पुनर्यान्यन्यानि शरीरस्थानानि १DOGGERGONISA GER
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy