SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ SNE नामप्रत्यय (5 तस्यां कियन्तः स्नेहाविभागा इति चेद्, उच्यते-यावन्तः प्रथमस्पर्धकसत्कप्रथमवर्गणायां तावन्तस्त्रिगुणाः । तत एकेन स्नेहाविभाकर्मप्रकृतिःला | गेनाधिकानां परमाणूनां समुदायो द्वितीया वर्गणा । द्वाभ्यां स्नेहाविभागाभ्यामधिकानां समुदायस्तृतीया वर्गणा । एवमेकैकस्नेहावि- भागवृद्धथा निरन्तरं वर्गणास्तावद्वाच्या यावदभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा भवन्ति । ततस्तासां समुदायस्तृतीयं स्प|र्धकम् । ततः पुनरप्यत ऊर्ध्वमेकेन स्नेहाविभागेनाधिकाः परमाणवो न प्राप्यन्ते, नापि द्वाभ्याम् , नापि त्रिभिः, यावन्नापि संख्येयैः, नाप्यसंख्येयैः, नाप्यनन्तैः किन्त्वनन्तानन्तैरेव सर्वजीवेभ्योऽनन्तगुणैरधिकाः प्राप्यन्ते, ततस्तेषां समुदायश्चतुर्थस्य स्पर्धकस्य प्रथमा | वर्गणा । तस्यां कियन्तः स्नेहाविभागा इति चेद्, उच्यते-प्रथमस्पर्धकसत्कप्रथमवर्गणायां यावन्तः स्नेहाविभागास्तावन्तश्चतुर्गुणाः । एवं यतिसंख्यं यतिसंख्यं स्पर्धकं चिन्तयितुमारभ्यते, तद्यथा-पञ्चमं दशमं विंशतितमं सहस्रतमं लक्षतमं वा तत्तत्संख्यागुणिताः प्रथमस्पर्धकसत्कप्रथमवर्गणागताः स्नेहाविभागास्ततिसंख्यस्य ततिसंख्यस्य स्पर्धकस्यादिवर्गणायां द्रष्टव्याः। तानि च स्पर्धकानि कियन्ति भवन्तीति चेद् , उच्यते-अभव्येभ्योऽनन्तगुणानि सिद्धानामनन्तभागकल्पानि । अन्तराणि कियन्ति भवन्तीति चेद्, उच्यते-रूपोनस्पर्धकतुल्यानि, तथाहि-चतुर्णामन्तराणि त्रीण्येव भवन्ति, नोनाधिकानि, एवमत्रापि भावनीयम् । वर्गणास्वानन्तर्यण द्वे वृद्धी भवतः, तद्यथा-एकैकाविभागवृद्धिः, अनन्तानन्ताविभागवृद्धिश्च । तत्रैकैकाविभागवृद्धिः स्पर्धकगतानां वर्गणानां यथोत्तरम्, अनन्तानन्ताविभागबृद्धिः पाश्चात्यस्पर्धकगतचरमवर्गणापेक्षयोत्तरस्पर्धकस्यादिवर्गणायाम् , पारम्पर्येण पुनः प्रथमस्पर्धकसत्कप्रथमवर्गणापेक्षया षडपि वृद्धयोऽवगन्तव्याः । तद्यथा-अनन्तभागवृद्धिः, असंख्येयभागवृद्धिः, संख्येयभागवृद्धिः, संख्येयगुणवृद्धिः, असंख्ये| ययुणवृद्धिः, अनन्तगुणवृद्धिश्चेति । तदेवं कृता अविभागप्ररूपणा वर्गणाप्ररूपणा स्पर्धकप्ररूपणा अन्तरप्ररूपणा च । सांप्रतं वर्गणागत ॥६१॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy