SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ क्रियते-औदारिकादिशरीरपञ्चकप्रायोग्यानां परमाणूनां यो रसः स केवलिप्रज्ञाछेदनकेन छिद्यते, छिच्चा छिच्वा च निर्विभागा भागाः क्रियन्ते, ते च निर्विभागा भागा गुणपरमाणवो वा भावपरमाणवो वा प्रोच्यन्ते, एषाऽविभागप्ररूपणा । तत्रैकेन स्नेहात्रिभागेन युक्ताः शरीरयोग्याः पुद्गला न भवन्ति, किमुक्तं भवति १ औदारिकौदारिकबन्धनादीनां पञ्चदशानां बन्धनानामन्यतमस्यापि बन्धनस्य विषया न भवन्तीत्यर्थः, नापि द्वाभ्यां स्नेहाविभागाभ्यां युक्ताः, नापि त्रिभिर्नापि संख्येयैर्नाप्यसंख्येयैर्नाप्यनन्तैः, किं त्वनन्तानन्तैरेव सर्वजीवेभ्योऽनन्तगुणैः, ततस्तेषां पुद्गलानां समुदायः प्रथमा वर्गणा, सा च जघन्या । तत एकेन स्नेहाविभागेनाधिकानां पुद्गलानां समुदायो द्वितीया वर्गणा । द्वाभ्यां स्नेहाविभागाभ्यामधिकानां समुदायस्तृतीया वर्गणा । एवमेकैकाविभागवृद्धया निरन्तरं | तावद्वर्गणा वाच्या यावदभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा भवन्ति । एतासां च समुदाय एकं स्पर्धकम् । तत इत उर्ध्वमे| केन स्नेहाविभागेनाधिकाः परमाणवो न प्राप्यन्ते, नापि द्वाभ्यां नापि त्रिभिः, नापि संख्येयैः, नाप्यसंख्येयैः, नाप्यनन्तैः, कि| न्त्वनन्तानन्तैरेव सर्वजीवेभ्योऽनन्तगुणैरधिकाः प्राप्यन्ते, ततस्तेषां समुदायो द्वितीयस्य स्पर्धकस्य प्रथमा वर्गणा । तस्यां कियन्तः | स्नेहाविभागा इति चेद्, उच्यते - यावन्तः प्रथमस्पर्धकप्रथमवर्गणायां स्नेहाविभागास्तावन्तो द्विगुणाः । तत एकेन स्नेहाविभागेनाधिकानां परमाणूनां समुदायों द्वितीया वर्गणा । द्वाभ्यां स्नेहाविभागाम्यामधिकानां समुदायस्तृतीया वर्गणा । एवमेकैकस्नेहाविभाग| द्वया निरन्तरं वर्गणास्तावद्वाच्या यावद्भव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा भवन्ति । ततस्तासां समुदायो द्वितीयं स्पर्धकम् । ततः पुनरप्यत ऊर्ध्वमेकेन स्नेहाविभागेनाधिकाः परमाणवो न प्राप्यन्ते, नापि द्वाभ्याम्, नापि त्रिभिः, यावन्नापि संख्येयैः, नाप्यसंख्येयैः, नाप्यनन्तैः किन्त्वनन्तानन्तैरेव सर्वजीवेभ्योऽनन्तगुणैः, ततस्तेषां परमाणूनां समुदायस्तृतीयस्पर्धकस्य प्रथमा वर्गणा । 1 aa
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy