SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Z जो उ रसो | परिवइढेई जीवे पओगफ तयं विति । एतत्प्ररूपणापि नामप्रत्ययस्पर्धकप्ररूपणावदवसेया । तदुक्तं – “अविभागवग्गफडूग अंतरठाणाह एत्थ जहपुवि । ठाणाइवग्गणाओ अणतगुणणार गच्छति ॥ " अस्या अर्थः- अविभागवर्गणास्पर्धकान्तर| स्थानादिप्ररूपणा यथा पूर्व नामस्पर्धके कृता तथात्रापि प्रयोगप्रत्यये स्पर्धके कर्त्तव्या । स्थानानामाद्या वर्गणा अनन्तगुणनयाऽऽगच्छन्ति । तथाहि - प्रथमस्थानसत्कप्रथमवर्गणायां सकलपुद्गलगतस्नेहाविभागाः सर्वस्तोकाः, ततो द्वितीयस्थानगतप्रथमवर्गणायामनन्तगुणाः, | ततोऽपि तृतीयस्थानगतप्रथमवर्गणायामनन्तगुणाः, एवं तावन्नेयं यावदन्तिमं स्थानमिति । 'अन्तरठाणाइ' इत्यत्रादिशब्दात् कण्डकपदस्थानकपरिग्रहः । अत एवैतदाधिक्यान्नामप्रत्ययस्पर्धकप्ररूपणायां प्रयोगप्रत्ययस्पर्धकप्ररूपणायां च प्रत्येकमष्टावप्यनुयोगद्वाराणि भण्यन्ते । इदानीमल्पबहुत्वमुच्यते —— स्नेहप्रत्ययस्पर्धकस्य जघन्यवर्गणायां सकलपुद्गलगताः स्नेहाविभागाः सर्वस्तोकाः, ततस्तस्यैवोत्कृष्टवर्गणायां तेऽनन्तगुणाः, तेभ्योऽपि नामप्रत्ययस्पर्धकस्य जघन्यवर्गणायामनन्तगुणाः, तेभ्योऽपि तस्यैवोत्कृष्टवर्गणायामनन्तगुणाः, ते|भ्योऽपि प्रयोगप्रत्ययस्पर्धकस्य जघन्यवर्गणायामनन्तगुणाः, तेभ्योऽपि तस्यैवोत्कृष्टवर्गणायामनन्तगुणाः । अथ गाथाक्षरार्थ उच्यते - नामप्रत्ययेषु प्रयोगप्रत्ययेष्वपि च स्पर्धकेषु अविभागवर्गणादयः प्राग्वज्ज्ञेयाः । तथाहि — स्नेहप्रत्ययस्पर्धक इवात्राप्यविभाग वर्गणा एकैकस्नेहाविभागवृद्धा अनन्ताः । तथा स्तोकेन स्नेहेन बद्धाः पुद्गला बहव इतरे स्तोकाः । यच्चासंख्यलोके द्विगुणहीना इत्युक्तं तदत्रासंभवान्न संबध्यते, स्नेहप्रत्ययस्पर्धकेष्वपि हि तन्न व्याप्या योजितं यथासंभवमेव तद्योजनस्य तत्राभिप्रेतत्वात् । तथा 'सिं' तिएषां स्नेहप्रत्ययनामप्रत्ययप्रयोगप्रत्ययस्पर्धकानां प्रत्येकं स्वके-आत्मीये जघन्यज्येष्ठे वर्गणे बुद्ध्या पृथक्कृत्वा क्रमेण तासु 'धणिय' त्तिनिचिताः, देशगुणाः- निर्विभागभागरूपाः सकलपुद्गल गतस्नेहा विभागा अनन्तगुणनया ज्ञातव्या इत्युचिताध्याहारेण व्याख्येयम् ॥ २३ ॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy