________________
स्नेहप्र
कमप्रकृति ॥५७॥
त्ययप्र
रूपणा.
| ग्रिमवर्गणायां पुद्गला द्विगुणहीनाः । एवं तावद्वाच्यं यावद्वक्ष्यमाणासंख्येयभागहानिगता चरमा वर्गणेति । इयमत्र भावना-ये खलु )
सर्वोत्कृष्टस्नेहस्य केवलिप्रज्ञाच्छेदनकेन छिचा निर्विभागा भागाः क्रियन्ते ते स्नेहाविभागाः। तत्र केचित् परमाणवो जगत्येकेन | | स्नेहाविभागेन युक्ताः सन्ति, तेषां समुदायः प्रथमा वर्गणा, द्वाभ्यां स्नेहाविभागाभ्यां युक्ता ये परमाणवः सन्ति तेषां समुदायो द्वितीया । एवं स्नेहाविभागैः संख्येयैर्युक्तानां संख्येया वर्गणा वाच्याः, असंख्येयैर्युक्तानामसंख्येयाः, अनन्तैर्युक्तानां चानन्ताः। सर्वाभिश्वाभिरेकमेव स्पर्धकं भवति, अपान्तराले एकैकाविभागवृद्धिव्यवच्छेदाभावात् । एकैकाविभागवृद्धिव्यवच्छेदो हि स्पर्धकपर्यवसानम् । उक्तं च-रूवुत्तरवुड्ढीए छेओ फडगाणं' ति । द्विधा चैतासु वर्गणाप्ररूपणा-अनन्तरोपनिधया परम्परोपनिधया च। तत्रादावनन्तरोपनिधया प्ररूपणा क्रियते-प्रथमायां वर्गणायामेकस्नेहाविभागाणुसमुदायरूपायां यावन्तः पुद्गलास्तदपेक्षया द्वितीयस्यामसंख्येयभागहीनाः। ततोऽपि तृतीयस्यामसंख्येयभागहीनाः। एवं प्रतिवर्गणमसंख्येयभागहान्या पुद्गलास्तावद्वाच्या यावदनन्ता वर्गणा गच्छन्ति । ततोऽनन्तरायां पुद्गलाः प्राक्तनवर्गणागतपुद्गलापेक्षया संख्येयभागहीनाः, ततोऽग्रेतन्यामपि पुद्गलाः संख्येयभागहीनाः, एवं संख्येयभागहान्याऽप्यनन्ता वर्गणा वाच्याः। तत उपरितन्यां वर्गणायां पुद्गलाः प्राक्तनवर्गणागतपुद्गलापेक्षया संख्येयगुणहीनाः, ततोऽग्रेतन्यामपि वर्गणायां पुद्गलाः संख्येयगुणहीनाः, एवं संख्येयगुणहान्याप्यनन्ता वर्गगा वाच्याः। ततोऽनन्तरायां वर्गणायां पुद्गलाः प्राक्तनवर्गणागतपुद्गलापेक्षयाऽसंख्येयगुणहीना भवन्ति, ततोऽग्रेतन्यामपि वर्गगायां पुद्गला असंख्येयगुणहीनाः, एव-10 मसंख्येयगुणहान्याऽप्यनन्ता वर्गणा वाच्याः। ततोऽनन्तरायां वर्गणायां पुद्गलाः प्राक्तनवर्गणागतपुद्गलापेक्षयाऽनन्तगुणहीना | भवन्ति, ततोऽग्रेतन्यामपि वर्गणायां पुद्गला अनन्तगुणहीना वाच्याः, एवमनन्तगुणहान्याऽप्यनन्ता वर्गणा वाच्या यावत् सर्वोत्कृष्टा
द
॥५
॥