SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Sai ভलद वर्गणाः । तदेवं कृतानन्तरोपनिधया प्ररूपणा । अथ परम्परोपनिधया क्रियते तत्राद्यवर्गणायाः परतोऽसंख्येय लोकाकाशप्रदेशप्रमाणवर्गणातिक्रमे या वर्गणाऽऽगच्छति, तस्यां पुद्गला आद्यवर्गणागत पुद्गलापेक्षया द्विगुणहीना भवन्ति, अर्धा भवन्तीत्यर्थः । ततः पुनरपि तावद्वर्गणातिक्रमे याऽनन्तरवर्गणा तस्यां पुद्गला अर्धा भवन्ति । एवं भूयो भूयस्तावद्वाच्यं यावदसङ्ख्येयभागहानिगता चरमा वर्गणा । ततः परं सङ्घयेयानां सङ्ख्येयभागहानिगतानां वर्गणानामतिक्रमे याऽनन्तरवर्गणा तस्यां पुद्गला असङ्खयेय भागहानिगतचरमवर्गणापुद्गलापेक्षयाऽर्धा भवन्ति । ततः पुनरपि संख्येया वर्गणाऽतिक्रम्यानन्तरायां वर्गणायां पुद्गला अर्धा भवन्ति । एवं भूयो भूयस्ताद्वाच्यं यावत्संख्येय भागहानावपि चरमा वर्गणा । उपरितनीषु तिसृषु हानिष्वियं द्विगुणहानिमार्गणलक्षणा परम्परोपनिधा न संभवति, यतः प्रथमायामपि संख्येयगुणहानिवर्गणायां पुद्गलाः प्राक्तनत्रगणातः संख्येयगुगहीनाः प्राप्यन्ते । संख्येयगुणहीनाश्च जघन्यतोऽपि त्रिगुणचतुर्गुणहीना गृह्यन्ते, न तु द्विगुणहीनाः, “सिद्धते जन्थ जन्थ संखेजगगहणं तत्थ तत्थ अजहरणमगुकोसयं दट्टब्बं" इत्यनुयोगद्वार चूर्णिवचनात् संख्येयस्य प्रायः सर्वत्राप्यजघन्योत्कृष्टस्यैव ग्रहणात् । तस्मादादित आरभ्यान्यथा परम्परोपनिधया प्ररूपणा क्रियतेअसंख्येयभागहानौ प्रथमान्तिमवर्गणयोरन्तराले प्रथमवर्गणापेक्षया काश्चिदसंख्येयभागहीनाः काचित्सङ्घयेय भागहीनाः, काश्चित्संख्येयगुणहीनाः, काश्चिदसङ्ख्येयगुणहीनाः, काश्चिदनन्तगुणहीना इत्येवमसङ्ख्येयभागहानौ प्रथमवर्गगापेक्षया पञ्चापि हानयः संभवन्ति । सङ्ख्येयभागहानावसङ्ख्येयभागहानिवर्जाः प्रथमवर्गणापेक्षया शेषाश्चतस्रो हानयः । सङ्घयेयगुणहानौ पुनरसङ्घयेय भाग हानिसङ्खयेय| भागहानिवर्जाः शेषास्तिस्रो हानयः । असङ्ख्येयगुणहानौ काचिदसङ्घयेयगुणहीनाः काश्चिदनन्तगुणहीना इति द्वे एव हानी । अनन्तगुणहानौ त्वनन्तगुणहानि रेवैकेति । कृता परम्परोपनिधया प्ररूपणा । सम्प्रत्यल्पबहुत्वमुच्यते-असंख्येयभागहानौ वर्गणाः सर्वस्तोकाः, Sesk
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy