________________
HIYASARASVATIMES
यगुणहीनाः काश्चिदनन्तगुणहीनाः । असंख्येयगुणहानौ पुनद्वे एव हानी, तथाहि-असंख्येयगुणहानौ प्रथमान्तिमवर्गणयोपान्तराले प्रथमवर्गणापेक्षया काश्चिदर्गणा असंख्येयगुणहीनाः, काश्विदनन्तगुणहीनाः । अनन्तगुणहानौ त्वनन्तगुणहानिरवैका । तदेवं कृता परम्परोपनिधया प्ररूपणा । सांप्रतमल्पबहुत्वमुच्यते-नत्रासंग्व्येयभागहानौ वर्गणाः स्तोकाः, ताभ्यः संख्येयभागहानौ वर्गणा अनन्तगुणाः । ताभ्योऽपि संख्येयगुणहानौ वर्गणा अनन्तगुणाः । ताभ्योऽप्यसंख्येयगुणहानौ वर्गणा अनन्तगुणाः । ताभ्योऽप्यनन्तगुणहानी वर्गणा अनन्तगुणाः । तथाऽनन्तगुणहानी पुद्गलाः सर्वस्तीकाः, तेभ्योऽसंख्येयगुणहानौ पुद्गला अनन्तगुणाः, तेभ्योऽपि संख्येयगुणहानौ पुद्गला अनन्तगुणाः, तेभ्योऽपि संख्येयभागहानौ पुद्गला अनन्तगुणाः, तेभ्योऽप्यसंख्येयभागहानौ पुद्गला अनन्तगुणाः॥२२॥ __ (उ०)-इह पुद्गलद्रव्याणां परस्परं सम्बन्धः स्नेहतो भवतीति स्नेहप्ररूपणा कर्त्तव्या । सा च त्रिधा-स्नेहप्रत्ययस्पर्धकप्ररूपणा, नामप्रत्ययस्पर्धकप्ररूपणा, प्रयोगप्रत्ययस्पर्धकप्ररूपणा च । तत्र स्नेहनिमित्तस्य स्पर्धकस्य प्ररूपणा स्नेहप्रत्ययस्पर्धकप्ररूपगा। शरीरबन्धननामकर्मोदयतः परस्परं बद्धानां शरीरपुद्गलानां स्नेहमधिकृत्य स्पर्धकप्ररूपणा नामप्रत्ययस्पर्धकमरूपणा । प्रकृष्टो योगः प्रयोगस्तेन प्रत्ययभृतेन कारणभूतेन ये गृहीताः पुद्गलास्तेषां स्नेहमधिकृत्य स्पर्धकप्ररूपणा प्रयोगप्रत्ययस्पर्धकप्ररूपणा । तत्र प्रथमतः स्नेहप्रत्ययस्पर्धकप्ररूपगां चिकीर्षुराह-स्नेहप्रत्ययं स्नेहनिमित्तमेकैकस्नेहाविभागवृद्धपुद्गलबर्गणासमुदायरूपं स्पर्धकमेकम् । तस्मिँश्च स्पर्धकेऽविभागवर्गणा एकैकस्नेहाविभागाधिकपरमाणुसमुदायरूपा अनन्ताः । तत्र हम्वेन-अल्पेन स्नेहेन ये बद्धाः पुद्गलास्ते बहवोऽर्थात प्रभृतेन स्नेहेन बद्धाः स्तोकाः। तथाऽसंख्यलोके द्विगुगहीनाः-आदिवर्गणायाः परतोऽसंख्येयलोकाकाशप्रदेशप्रमाणवर्गणास्वतिक्रान्तासु याऽग्रिमवर्गणा तस्यां पुद्गला आदिवगंगागतपुद्गलापेक्षया द्विगुणहीनाः । ततोऽपि तावत्प्रमाणासु वर्गणास्वतिक्रान्तास्व