________________
धर्मप्रकृतिः
स्नेहप्रत्ययप्ररूपणा.
॥५६॥
काशप्रदेशप्रमागा वर्गणा अतिक्रम्य या पराऽनन्तरा वर्गणा तस्यां पुद्गला अर्धा भवन्ति । एवं भूयो भूयस्तावदवगन्तव्यं यावदसंख्येयभागहानिगता चरमा वर्गणा, ततः परं संख्येयभागहानिगता वर्गणाः संख्येया अतिक्रम्यानन्तरायां वर्गणायां पुद्गला असंख्येयभागहानिगतचरमवर्गगापुद्गलापेक्षयार्धा भवन्ति । ततः पुनरपि संख्येया वर्गणा अतिक्रम्यानन्तरायां वर्गणायां पुद्गला अर्धा भवन्ति ।। एवं भूयो भूयस्तावद्वक्तव्यं यावत्संख्येयभागहानावपि चरमा वर्गणा । उपरितनीषु च तिसृषु हानिषु इयं परम्परोपनिधा न संभवति ।। यतः प्रथमायामपि संख्येयगुणहानिवर्गगायां पुद्गलाः संख्येभागहानिसत्कचरमवर्गगान्तर्गतपुद्गलापेक्षया संख्येयगुगहीनाः प्राप्यन्ते । संख्येयगुणहीनाश्च जघन्यतोऽपि त्रिगुणहीनाश्चतुर्गुणहीना वा गृह्यन्ते, न तु द्विगुणहीनाः, यतः संख्येयं पायः सर्वत्राप्यजघन्योत्कृष्ट त्रिप्रभृत्येव गृह्यते, न तु द्वौ, नापि सर्वोत्कृष्टम् , तदुक्तमनुयोगद्वारचूडै-"सिद्धते य जत्थ जत्थ संखेजगगहणं तत्थ तत्थ अजहण्णमणु| कोसयं दट्टब्वं” ति । तत इत ऊर्च द्विगुणहीनान प्राप्यन्ते किंतु त्रिगुणचतुर्गुणादिहीना इति नेयं द्विगुणहान्या परम्परोपनिधा संभवति । | तस्मान्मूलत आरम्यान्यथाऽत्र परम्परोपनिधया प्ररूपणा क्रियते-असंख्येयभागहानौ प्रथमान्तिमवर्गणयोरपान्तराले प्रथमवर्गणापेक्षया का|श्चिद्वर्गणा असंख्येयभागहीनाः, काश्चित्संख्येयभागहीनाः, काश्चित्संख्येयगुणहीनाः,काश्चिदसंख्येयगुणहीनाः, काश्चिदनन्तगुणहीनाः,एव
मसंख्येयभागहानौ प्रथमवर्गगापेक्षया पश्चापि हानयःसंभवन्ति। संख्येयभागहानौ पुनरसंख्येयभागहानिवर्जाः शेषाश्चतस्रोऽपि हानयः सं| भवन्ति । तद्यथा-संख्येयभागहानौ प्रथमान्तिमवर्गणयोरपान्तराले प्रथमवर्गणापेक्षया काश्चिद्वर्गणाः संख्येयभागहीनाः, काश्चित्संख्येयगुणहीनाः, काश्चिदसंख्येयगुणहीनाः, काश्चिदनन्तगुणहीनाः। संख्येयगुणहानौ पुनरसंख्येयभागहानिसंख्येयभागहानिवर्जाः शेषास्तिस्रो हानयः संभवन्ति । तद्यथा-संख्येयगुणहानौ प्रथमान्तिमवर्गणयोरपान्तराले प्रथमवर्गणापेक्षया काश्चिद्वर्गणाःसंख्यगुणहीनाः, काश्चिदसंख्येय