SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Aa वर्गणा । ये पुनर्द्वाभ्यां स्नेहाविभागाभ्यां युक्ताः परमाणवः सन्ति तेषां समुदायो द्वितीया वर्गणा । एवं त्रिभिः स्नेहाविभागैर्युक्तानां समुदायस्तृतीया वर्गणा । एवं संख्येयैः स्नेहाविभागैर्युक्तानां संख्येया वर्गणा वाच्याः । असंख्येयैः स्नेहाविभागैर्युक्तानां पुनरसंख्येया वर्गणाः । अनन्तैः स्नेहाविभागैर्युक्तानां त्वनन्ता वर्गणाः । द्विधा चात्र प्ररूपणा, तद्यथा - अनन्तरोपनिधया परम्परोपनिधया च । तत्र तावत्प्रथमतोऽनन्तरोपनिधया प्ररूपणा क्रियते - प्रथमायां वर्गणायामेकस्नेहाविभागयुक्त पुद्गल समुदायरूपायां यावन्तः पुद्गला|स्तदपेक्षया द्वितीयस्यां वर्गणायां स्नेहाविभागद्वययुक्तपुद्गलसमूहरूपायां पुद्गला असंख्येयभागहीना भवन्ति । ततोऽपि तृतीयस्यां वर्गणायामसंख्येय भागहीनाः । एवं प्रतिवर्गणमसंख्येयभागहान्या पुद्गलास्तावद्वाच्या यावदनन्ता वर्गगा गता भवन्ति । ततोऽनन्तरायां पुद्गलाः प्राक्तनवर्गणागतपुद्गलापेक्षया संख्येयभागहीना भवन्ति । ततोऽयेतन्यामपि वर्गणायां पुद्गलाः संख्येयभागहीनाः । एवं संख्येय भागहान्यापि वर्गणा अनन्ता वाच्याः । ततोऽनन्तरायां वर्गणायां पुद्गलाः प्राक्तन वर्गणागत पुद्गलापेक्षया संख्येयगुणहीना भवन्ति । ततोऽग्रेतन्यामपि वर्गणायां पुद्गलाः संख्येयगुणहीनाः । एवं संख्येयगुणहान्याप्यनन्ता वर्गगा वाच्याः । ततोऽनन्तरायां वर्ग| णायां पुद्गलाः प्राक्तनवर्गणागतपुद्गलापेक्षयाऽसंख्येयगुणहीना भवन्ति । ततोऽग्रेतन्यामपि वर्गणायां पुद्गला असंख्येयगुणहीनाः । एव| मसंख्येयगुणहान्याप्यनन्ता वर्गणा वक्तव्याः । ततोऽनन्तरायां वर्गणायां पुद्गलाः प्राक्तनवर्गगागत पुद्गलापेक्षयाऽनन्तगुणहीना भवन्ति । ततोऽग्रेतन्यामपि वर्गणायां पुद्गला अनन्तगुणहीनाः । एवमनन्तगुणहान्याप्यनन्ता वर्गणा वाच्या यावत्सर्वोत्कृष्टा वर्गणाः । तदेवं कृता| ऽनन्तरोपनिधया प्ररूपणा । सम्प्रति परम्परोपनिधया क्रियते तत्र प्रथमवर्गणायाः परतोऽसंख्येयलोकाकाशप्रदेशप्रमाणा वर्गगा अतिक्रम्य | या पराऽन्या वर्गगा तस्यां पुद्गलाः प्रथमवर्गणागतपुद्गलापेक्षया द्विगुणहीना भवन्ति, अर्धा भवन्तीत्यर्थः । ततः पुनरप्यसंख्येयलोका
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy