SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥ ५५ ॥ दव्वाणि अनंतगुणाणि ताहिं चैव पदेसाऽसंखेज्जगुणा । एवं सव्वातो णायव्वातो ॥ २२ ॥ (मलय०) – इह पुद्गलद्रव्याणां परस्परं संबन्धः स्नेहतो भवति, ततोऽवश्यं स्नेहप्ररूपणा कर्तव्या । सा च त्रिधा, तद्यथा - स्नेहप्र त्ययस्पर्धकप्ररूपणा, नामप्रत्ययस्पर्धकप्ररूपणा, प्रयोगप्रत्ययस्पर्धकप्ररूपणा च । तत्र स्नेहप्रत्ययस्य - स्नेहनिमित्तस्य स्पर्धकस्य प्ररूपणा | स्नेहप्रत्ययस्पर्धकप्ररूपणा । तथा शरीरबन्धननामकर्मोदयतः परस्परं बद्धानां शरीरपुद्गलानां स्नेहमधिकृत्य स्पर्धकप्ररूपणा नामप्रत्ययस्पर्धकप्ररूपणा । शब्दार्थश्चायं - नामप्रत्ययस्य-बन्धननामनिमित्तस्य शरीरप्रदेशस्पर्धकस्य प्ररूपणा नामप्रत्ययस्पर्धकप्ररूपणा । तथा | प्रकृष्टो योगः प्रयोगः, तेन प्रत्ययभूतेन - कारणभूतेन ये गृहीताः पुद्गलास्तेषां स्नेहमधिकृत्य स्पर्धकप्ररूपणा प्रयोगप्रत्ययस्पर्धकप्ररू| पणा । तत्र प्रथमः स्नेहप्रत्ययस्पर्धकप्ररूपणार्थमाह – 'नेह' त्ति । स्नेहप्रत्ययं - स्नेहनिमित्तं एकैकस्नेहाविभागवृद्धानां पुद्गलवर्गणानां समुदायरूपं स्पर्धकं स्नेहप्रत्ययस्पर्धकम् । तच्चैकमेव भवति, अपान्तराले वर्गणानामेकोत्तरवृद्धया व्यवच्छेदाभावात् । तस्मिंश्च स्पर्धकेऽविभागवर्गणा एकैकस्नेहाविभागाधिकपरमाणुसमुदायरूपा वर्गणा अनन्ता द्रष्टव्याः । तत्र 'इस्वेन' - अल्पेन स्नेहेन ये 'बद्धा'-युक्ताः पुद्गलास्ते बहवः, अर्थाच्च प्रभूतेन स्नेहेन बद्धाः स्तोकाः । तथा 'असंखलोगे दुगुणहीण' त्ति - आदिवर्गणायाः परतोऽसंख्येयलोकाकाशप्रदेशप्रमाणा | वर्गणा अतिक्रम्य याऽनन्तरा वर्गणा तस्यां पुद्गलाः प्रथमवर्गणागतपुद्गलापेक्षया द्विगुणहीना भवन्ति । पुनरपि ततोऽसंख्येयलोकाकाशप्रदे| शप्रमाणा वर्गणा अतिक्रम्यानन्तरायां वर्गणायां पुद्गला द्विगुणहीना भवन्ति । एवं तावद्वाच्यं यावद्वक्ष्यमाणा संख्येयभागहानिगता चरमा वर्गणा । इयमत्र भावना - इह यः सर्वोत्कृष्टः स्नेहः स केवलिप्रज्ञाच्छेदनकेन छिद्यते, छित्त्वा छिया च निर्विभागा भागाः पृथक् पृथक् व्यवस्थाप्यन्ते । तत्र जगति ये केचित् परमाणव एकेन स्नेहस्य निर्विभागेन भागेन युक्ताः सन्ति तेषां समुदायः प्रथमा Kasa स्नेहप्र त्ययम रूपणा. ।। ५५ ।।
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy