________________
PCODAI
द्वितीय ध्रुवशून्यव०
बादरनिगोदव० | तृतीया ध्रुवशून्यव० २४ सूक्ष्मनिगोदव० | २५ चतुर्थधुवशून्यव० । २६ अचित्तमहास्कन्धव० । तसकाइयाण थोवो उ । महखंघवग्गणाओ तहिँ काले हाँति बहुगाओ॥३॥" एताश्च परमाणुवर्गणाद्या महास्कन्धवर्गणान्ताः 'गुणणिफण्णसनाम' त्ति-गुणैः कृत्वा निष्पन्नं स्वनाम यासां ताः । तथाहि-एकैकपरमाणवः परमाणुवर्गणा, द्वयोः परमाण्वोर्वर्गणा द्विपरमाणुवर्गणा इत्येवं तन्नाम्नामन्वर्थता विद्यत एवेति । तथा 'असंखभागंगुलवगाहो' नि-सर्वासामपि वर्गणानामवगाहोऽगुलस्यासंख्येयो भामः । यद्यपि सामस्त्येनैताः प्रत्येकमनन्ताः सकललोकाश्रिताश्च प्रागुक्तास्तथापि एकैकाः सत्योऽगुलासंख्येयभागमात्रक्षेत्रावगाहा एव भवन्तीत्यर्थः । तथा कार्मणशरीरप्रायोग्यवर्गणात आरभ्याग यावदौदारिकशरीरप्रायोग्या वर्गणास्तावत्क्षेत्रावगाहः पश्चानुपूर्व्याऽसंख्येयगुणो द्रष्टव्यः॥१८-१९-२०॥