________________
कर्मप्रकृतिः
बन्धनकरणे वगणाम रूपणा.
कशरीरिद्रव्यवर्गणायामिव भावनीया । तत एकपरमाण्वधिकस्कन्धरूपा जघन्या तृतीयध्रुवशून्यवर्गणा । तत एकैकपरमाण्वधिकस्कन्धरूपा वर्गणास्तावद्वाच्या यावदुत्कृष्टा तृतीयध्रुवशून्यवर्गणा। जघन्यायाश्चोत्कृष्टाऽसंख्येयगुणा। गुणकारश्वाङ्गुलमात्रक्षेत्रे आवलिकाऽसंख्येयतमभागस्थयावत्समयप्रमाणेषु वर्गमूलेषु गृहीतेषु यत् चरमं वर्गमूलं तदसंख्येयतमभागे यावन्त आकाशप्रदेशास्तावत्प्रमाणो द्रष्टव्यः । तत एकपरमाण्वधिकस्कन्धरूपा वर्गणा जघन्या सूक्ष्मनिगोदवर्गणा । सा च तदौदारिकशरीराद्याश्रितविश्रसोपचितपुद्गलरूपा बादरनिगोदवर्गणावदविशेषेणावगन्तव्या, यावदुत्कृष्टा । जघन्यायाश्चोत्कृष्टाऽसंख्येयगुणा । गुणकारश्चावलिकाया असंख्येयतमभागे यावन्तः समयास्तावत्प्रमाणो द्रष्टव्यः। सूक्ष्मनिगोदजीवानां ह्युत्कृष्टं योगस्थानं जघन्यादावलिकासंख्येयभागगुणितमेव प्राप्यते, नाधिकम् । योगाधीना च कर्मप्रदेशोपचयवृद्धिः, तदधीना च सूक्ष्मनिगोदवर्गणेति । तत एकपरमाण्वधिकस्कन्धरूपा वर्गणा जघन्या तुरीयध्रुवशून्यवर्गणा । तत एकैकपरमाण्वधिकस्कन्धरूपास्तावद्वाच्या यावदत्कृष्टा तुरीयध्रुवशून्यवर्गणा । जघन्यायाश्चोत्कृष्टाऽसंख्येय| गुणा । गुणकारश्च प्रतरासंख्येयभागवृत्त्यसंख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणः। तत एकपरमाण्वधिकस्कन्धरूपा वर्गणा जघन्या महास्क: १६ न्धवर्गणा । महास्कन्धवर्गणा नाम ये पुद्गलस्कन्धा विश्रसापरिणामेन टङ्ककूटपर्वताद्याश्रिताः।ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया महास्कन्धवर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा महास्कन्धवर्गणास्तावद्वाच्या यावदुत्कृष्टा । जघन्यायाश्चोत्कृष्टाऽसङ्खयेयगुणा । गुणकारश्च पल्योपमासङ्खयेयभागलक्षणो द्रष्टव्यः । इमाश्च महास्कन्धवर्गणास्त्रसकायभूयस्त्वे खल्पाः तदल्पत्वे तु प्रभूताः प्राप्यन्त इति वस्तुस्वभाव एषः । तदुक्तं शतकबृहच्चू)-"महखंधवग्गणा टंककूड तह पब्धयाइठाणेसु । जे पोग्गला समसिया महखंधा ते उ वुच्चंति ॥१॥ तत्थ तसकायरासी जम्मि य कालम्मि होंति बहुगो अ । महखंधवग्गणाओ तम्मि य काले भवे थोवा ॥ २ ॥ पुण होइ अ काले रासी
DDRODAGADC