SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ NASA maan उक्तं च शतकबृहच्चूणां पत्तयवरगणा दह पतंगाणंतउरलमाईणां । चण्हसरीराणं तणुकम्भपएस जे उ ॥ १ ॥ तत्थक्वेक परस वीससपरिणामवचिया हुति । सव्यजियाणंतगुणा पत्या वग्गणा नाओ ॥ २ ॥ तत एकपरमाण्वधिकस्कन्धरूपा द्वितीया प्रत्येकशरी रिद्रव्यवर्गणा । एवमेकैकपरमाण्वाधिक्येन प्रत्येकशरीरिद्रव्यवर्गणास्तावद्वक्तव्या यावदुत्कृष्टा । जघन्यायाश्चोत्कृष्टाऽसंख्येयगुणा । गुणका रथ सूक्ष्मक्षेत्रपल्योपमासंख्येयभागलक्षणः । कथमेतदवगम्यते ? इति चेत, उच्यते जघन्ये कर्मप्रदेशोपचये जघन्या तत्र वैश्रमिकी प्रत्येक शरीरिद्रव्यवरीणा, उत्कृष्टं चोत्कृष्टा । जघन्यच कर्मप्रदेशापचयो जघन्ययोगाद्भवति, उत्कृष्टश्वोत्कृष्टात् । जघन्याच्च योगस्थानादुत्कृष्टं योगस्थानं सूक्ष्मक्षेत्रपल्योपमासंख्येयभागगुणितमेव प्राप्यते, ततो जघन्याद् कर्मप्रदेशोपचयादुत्कृष्टः कर्मप्रदेशोपचय स्तावन्मात्र एव जघन्यायाः सकाशादुत्कृष्टा प्रत्येकशरीरिद्रव्यवर्गणाऽपि च तावत्प्रमाणैव सिध्यतीति । ततोऽनन्तरमेकपरमाण्वधिकस्कन्धरूपा जघन्या द्वितीयवशून्यवर्गणा, द्विपरमाण्वधिकस्कन्धरूपा द्वितीया । एवमेकैकपरमाण्वधिकस्कन्धरूपद्वितीय ध्रुवशून्यवर्गणास्तावद्वाच्या याव दुत्कृष्टा द्वितीयध्रुवशून्यवर्गणा । जघन्यायाश्रोत्कृष्टाऽसंख्यगुणा । गुणकारश्चासंख्येयलोकाकाशप्रदेशप्रमाणो द्रष्टव्यः । तत एकपरमाण्वधिकस्कन्धरूपा जघन्या बादरनिगोदद्रव्यवर्गणा । अथ केयं बादरनिगोदद्रव्यवर्गणा नाम ? उच्यते- बादरनिगोद जीवानामौदारिकतैजसकार्मणेषु शरीरनामकर्मसु ये प्रत्येकं सर्वजीवानन्तगुणाः पुद्गला विश्रसापरिणामेनोपचयमायान्ति ते बादरनिगोदद्रव्यवर्गणाः । यद्यपि केषांचिद्वादर निगोद जीवानां वैक्रियाहारकशरीरनामकर्मणी अपि संभवतस्तथापि ते प्रथमसमयादेव निरन्तरमुद्वल्यमा नत्वादत्यन्तमसारे इति न विवक्ष्येते । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया बादरनिगोदद्रव्यवर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा वर्गणास्तावद्वाच्या यावदुत्कृष्टा । जघन्यायाश्चोत्कृष्टा क्षेत्रपल्योपमासंख्येय भागलक्षणेन गुणकारेणासंख्येयगुणा । अत्र युक्तिः प्रत्ये 524
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy