SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ बन्धन वगणाप्ररूपणा. भवन्ति । तथाहि-प्रथमध्रुवशून्यवर्गणाया उपरि प्रत्येकशरीरिवर्गणा। द्वितीयध्रुवशून्यवर्गणाया उपरि बादरनिगोदवर्गणा । तृतीयध्रुवकर्मप्रकृतिः शून्यवर्गणाया उपरि सूक्ष्मनिगोदवर्गणा | चतुर्थध्रुवशून्यवर्गणाया उपरि महास्कन्धवर्गणा । तत्र कर्मप्रायोग्योत्कृष्टवर्गणानन्तरमेकपरमा वधिकस्कन्धरूपा जघन्या ध्रुवाचित्तद्रव्यवर्गणा। तत एकैकपरमाण्वधिकस्कन्धरूपा ध्रुवाचित्तद्रव्यवर्गणास्तावद्वाच्या यावदुत्कृष्टा ॥५०॥ | ध्रुवाचित्तद्रव्यवर्गणा । ध्रुवाचित्तद्रव्यवर्गणा नाम याः सदैव लोके प्राप्यन्ते । तथाहि-एतासां मध्येऽन्या उत्पद्यन्तेऽन्या विनश्यन्ति, न पुनरेतासां यथास्थितसंख्यानामन्यतमयाऽपि कदाचनापि लोको विरहितो भवति, अचित्तत्वं चासां जीवेन कदाचिदप्यग्रहणादव| सेयं, जीवेन ग्रहणे त्वौदारिकादीनामिव कथञ्चित्सचित्तत्वमपि स्यादिति । जघन्यायाश्च सकाशादुत्कृष्टा वर्गणाऽनन्तगुणा । गुणकारश्च सर्वजीवानन्तगुणराशिप्रमाणो द्रष्टव्यः । तत एकपरमाण्वधिकस्कन्धरूपा जघन्याऽभुवाचित्तद्रव्यवर्गणा । तत एकैकपरमाण्वाधिक्येना(सधुवाचित्तवर्गणास्तावद्वाच्या यावदुत्कृष्टाऽध्रुवाचित्तद्रव्यवर्गणा भवति । अवैवाचित्तद्रव्यवर्गणा नाम यासां मध्ये काश्चिद्वर्गणाः कदाचि|ल्लोके भवन्ति । अत एवैताः सान्तरनिरन्तरा अप्युच्यन्ते । जघन्यायाश्च सकाशादुत्कृष्टा वर्गणा सर्वजीवानन्तगुणराशिप्रमाणेनानन्तगुणा । तत एकपरमाण्यधिकस्कन्धरूपा जघन्या प्रथमधुवशून्यवर्गणा । तत एकैकपरिमाण्वाधिक्येन प्रथमधुवशून्यवर्गणास्तावद्वक्तव्या यावदुत्कृष्टा प्रथमधुवशून्यवर्गणा भवति । धुवशून्यवर्गणानाम याः कदाचनापि लोकेन भवन्ति,केवलमुपरितनवर्गणानां बाहुल्यपरिज्ञानार्थ प्ररूपणामात्रमेव क्रियते । जघन्यायाश्च वर्गणायाः सकाशादुत्कृष्टाऽनन्तगुणा । गुणकारश्च सर्वजीवानन्तगुणराशिप्रमाणः। तत एकपरमाण्वधिकस्कन्धरूपा जघन्या प्रत्येकशरीरिद्रव्यवर्गणा। केयं प्रत्येकशरीरिद्रव्यवर्गणा नाम? उच्यते-प्रत्येकशरीरिणां यथासंभवमौदारिकवैक्रियाहारकतैजसकार्मणेषु शरीरनामकर्मसु ये प्रत्येकं विश्रसापरिगामेनोपचयमापन्नाः सर्वजीवानन्तगुणाः पुद्गलास्ते प्रत्येकशरीरिद्रव्यवर्गणाः । ॥५०॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy