SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ स्कन्धरूपास्तावद्वाच्या यावदुत्कृष्टाऽग्रहणप्रायोग्या वर्गणा । ततोऽग्रहणप्रायोग्योत्कृष्टवर्गणात एकपरमाण्वधिकस्कन्धरूपा जघन्या कर्मप्रायोग्या वर्गणा, यत्पुद्गलान् गृहीत्वा जीवा ज्ञानावरणादिरूपतया परिणमयन्ति । तत एकैकपरमाण्वधिकस्कन्धरूपास्तावद्वाच्या यावदुत्कृष्टा कर्मप्रायोग्या वर्गणा । सर्वत्रोत्कृष्टा ग्रहणप्रायोग्यवर्गणा स्वजघन्यवर्गणानन्ततमभागरूपेण विशेषेण स्वस्वजघन्यवर्गणातोऽधिका, अग्रहणप्रायोग्योत्कृष्टवर्गणा च स्वजघन्यवर्गणाऽपेक्षयाऽभव्यानन्तगुणसिद्धानन्तभागकल्पराशिप्रमाणेनानन्तगुणा द्रष्टव्या। 'भासामणे य' इत्यत्र चशब्दस्यानुक्तसमुच्चयार्थत्वाद् भाषावर्गणानन्तरमग्रहणवर्गणान्तरिताः प्राणापानवर्गणा द्रष्टव्याः। ताश्च व्याख्याता एव । 'कम्मे य' इत्यत्र चशब्दः सर्वसमुच्चये । अर्थतासामौदारिकादिवर्गणानां वर्णादि प्रसङ्गतो निरूप्यते-तत्रौदारिकवैक्रियाहारक| वर्गणाः पञ्चवर्णाः द्विगन्धाः पश्चरसा अष्टस्पर्शाश्च । यद्यपि परमाणोरेक एव वर्ण एक एव रस एक एव गन्धो द्वावेव चाविरुद्धौ स्पी भवतस्तथापि समुदाय कोऽपि परमाणुः केनापि वर्णादिना युक्तो भवतीति समुदाये पञ्चवर्णादित्वप्रतिपादनमविरुद्धम् । तैजसप्रायोग्याद्याश्च वर्गणाः पञ्चवर्णाः पञ्चरसा द्विगन्धाश्च ज्ञातव्याः,स्पर्शचिन्तायां तु चतुःस्पर्शाः। तत्र मृदुलघुरूपौ द्वौ स्पर्शाववस्थितौ,अन्यौ | तु द्वौ स्निग्धोष्णौ स्निग्धशीतौ रुक्षोष्णौ रूक्षशीतौ वानियतौ । तदिदमुक्तं-"पंचरसपंचवण्णेहिं परिणया अट्ठफासदोगंधा । जावा- 13 | हारगजोग्गा चउफासविसेसिया उवरिं ॥१॥” तथौदारिकवर्गणाः प्रदेशार्थतया सर्वस्तोकाः,ताभ्यो वैक्रियशरीरप्रायोग्या अनन्तगुणाः, ताभ्य आहारकप्रायोग्या अनन्तगुणाः । एवं तैजसभाषाप्राणापानमनःकर्मप्रायोग्या अपि वर्गणा यथोत्तरमनन्तगुणा वाच्याः। 'धुवअधुशव'इत्यादि । कर्मप्रायोग्योत्कृष्टवर्गणानन्तरं ध्रुवाचित्तद्रव्यवर्गणाः, तदनन्तरं चाध्रुवाचित्तद्रव्यवर्गणाः । ततः 'सुन्ना चउ' ति चतस्रो ध्रुवशून्यवर्गणाः । तासां चतसृणां ध्रुवशून्यवर्गणानामन्तरे उपरिष्टात् प्रत्येकतनुषु बादरसूक्ष्मनिगोदे तथा महास्कन्धे वर्गणा यथासंख्यं
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy