________________
कर्मप्रकृतिः
बन्धन
करणे
॥४९॥
वगेणापरूपणा.
| विशेषाधिकाः । आहारकशरीरप्रायोग्योत्कृष्टवर्गणात एकपरमाण्वधिकस्कन्धरूपाऽग्रहणप्रायोग्या जघन्या वर्गणा । तत एकैकपरमाण्वधिकस्कन्धरूपा अपहणमायोग्यास्तावद्वक्तव्या यावदुत्कृष्टा । जघन्यायाश्चोत्कृष्टाऽभव्यानन्तगुणसिद्धानन्तभागकल्पराशिप्रमाणेनानन्तगुणा । इह चूर्णिकृत्मभृतय औदारिकवैक्रियाहारकशरीरग्रहणप्रायोग्यवर्गणानामन्तराले ग्रहणवर्गणा नेच्छन्ति परमावश्यकभाष्यादावेता इप्यन्त इति तन्मतेनोक्ताः । आहारकशरीरपायोग्योत्कृष्टवर्गणात एकपरमाण्वधिकस्कन्धरूपा तैजसशरीरप्रायोग्या जघन्या वर्गणा । तत एकैकपरमाण्वधिकस्कन्धरूपास्तावद्वक्तव्या यावदुत्कृष्टा तैजसप्रायोग्या वर्गणा। तत एकपरमाण्वाधिक्ये जघन्या ग्रहणवर्गणा । तत एकैकपरमाण्वधिकस्कन्धरूपास्तावद्वाच्या यावदुत्कृष्टा अग्रहणवर्गणाः । तत उत्कृष्टाग्रहणवर्गणात एकपरमाण्वधिकस्कन्धरूपा जघन्या भाषापायोग्या वर्गणा, यत्पुद्गलान् गृहीत्वा जन्तवः सत्यादिभाषारूपतया परिणमय्यालम्ब्य च विसृजन्ति । तत एकैकपरमाण्वधिकस्कन्धरूपा भाषाप्रायोग्या वर्गणास्तावद्वाच्या यावदुत्कृष्टा । तत एकपरमाण्वाधिक्ये जघन्याऽग्रहणप्रायोग्या । तत एकैकपरमाण्वधिकस्कन्धरूपास्तावद्वाच्या यावदुत्कृष्टा अग्रहणप्रायोग्या वर्गणा। तत एकपरमावधिकस्कन्धरूपा जघन्या प्राणापानयोर्वर्गणा, यत्पुद्गलान् गृहीत्वा जन्तवः प्राणापानरूपतया परिणमय्यालम्ब्य च विसृजन्ति । तत एकैकपरमाण्वधिकस्कन्धरूपास्तावद्वाच्या यावदुत्कृष्टा | ग्रहणप्रायोग्या वर्गणा । प्राणापानयोग्योत्कृष्टवर्गणात एकपरमाण्बाधिक्ये जघन्याऽग्रहणप्रायोग्या । तत एकैकपरमाण्वधिकस्कन्धरूपास्तावद्वक्तव्या यावदुत्कृष्टा अग्रहणप्रायोग्या। ततोऽग्रहणप्रायोग्योत्कृष्टवर्गणात एकपरमाण्वधिकस्कन्धरूपा मनःप्रायोग्या जघन्या वर्गणा, यत्पुद्गलान् गृहीत्वा जन्तवः सत्यादिमनोरूपतया परिणमय्यालम्ब्य च विसृजन्ति । तत एकैकपरमाण्वधिकस्कन्धरूपास्तावद्वाच्या यावदुत्कृष्टा मनःप्रायोग्या वर्गणा । उत्कृष्टमनःप्रायोग्यवर्गणात एकपरमाण्वाधिक्ये जघन्याऽग्रहणमायोग्या। तत एकैकपरमाण्वधिक
AAASAASTAR