________________
Das दुब
रूपा द्वितीया ग्रहणप्रायोग्या । द्विपरमाण्वधिकस्कन्धरूपा तृतीया । एवमेकैकपरमाण्वधिक स्कन्धरूपास्तावद्वाच्या यावदुत्कृष्टा औदारिकशरीरप्रायोग्या वर्गणा । जघन्याया औदारिकग्रहणप्रायोग्यायाः सकाशादुत्कृष्टा वर्गणा विशेषाधिका । विशेषश्च तस्या एव वर्गणाया अनन्ततमो भागः । औदारिकप्रायोग्योत्कृष्टवर्गणात एकपरमाण्वधिकस्कन्धरूपा वर्गणाऽग्रहणप्रायोग्या, सा च जघन्या । ततो | द्विपरमाण्वधिकस्कन्धरूपा द्वितीयाऽग्रहणप्रायोग्या । एवमेकैकपरमाण्वधिकस्कन्धरूपा अग्रहणवर्गणास्तावद्वक्तव्या यावदुत्कृष्टा अग्रहणप्रायोग्या भवन्ति । ताश्च जघन्यायाः सकाशादनन्तगुणाः । गुणकारचा भव्यानन्तगुणसिद्धानन्तभागकल्पराशिप्रमाणो द्रष्टव्यः । एतासां चाग्रहणमायोग्यतौदारिकं प्रति प्रभूतपरमाणु निष्पन्नत्वात् सूक्ष्मपरिणामत्वाच्च, वैक्रियं प्रति तु स्वल्पपरमाण्वात्मकत्वात्स्थूलपरिणामत्वाच्चावसेया । एवमुत्तरत्रापि भावनीयम् । उक्ताग्रहणप्रायोग्योत्कृष्टवर्गणात एकपरमाण्वधिकस्कन्धरूपा वैक्रियशरीरप्रायोग्या जघन्या वर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया । एवमेकैकपरमाण्वधिकस्कन्धरूपा वर्गणा वैक्रियग्रहणप्रायोग्यास्तावद्वाच्या यावदुत्कृष्टा ग्रहणप्रायोग्या वर्गणा आयान्ति । ताश्च जघन्याया विशेषाधिकाः । विशेषश्च तस्या एव वर्गणाया अनन्ततमो भागः । | वैक्रियशरीरग्रहणप्रायोग्योत्कृष्टवर्गणात एकपरमाण्वधिकस्कन्धरूपा जघन्याऽग्रहणप्रायोग्या वर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीयाऽग्रहणप्रायोग्या । एवमेकैकपरमाण्वधिकस्कन्धरूपा अग्रहणप्रायोग्यास्तावद्वाच्या यावदुत्कृष्टा अग्रहणप्रायोग्या वर्गणा । ताव जघन्याया अनन्तगुणाः । गुणकारश्चाभव्यानन्तगुण सिद्धानन्तभागकल्पराशिमानः । तत उत्कृष्टाग्रहणप्रायोग्यवर्गणात एकपरमाण्वधिकस्कन्धरूपा वर्गणाऽऽहारकशरीरप्रायोग्या । सा च जघन्या । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया । एवमेकैकपरमाण्वधिकस्कन्धरूपा आहारक ग्रहणप्रायोग्यास्तावद्वक्तव्या यावदुत्कृष्टाहारक ग्रहणप्रायोग्या वर्गणा भवति । जघन्यायाश्चोत्कृष्टास्तदनन्ततमभागेन
Himacha