SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः बन्धनकरणे वर्गणाप्र ॥४८॥ रूपणा. DoदORY सायां ग्रहणाग्रहणप्रायोग्याः पुद्गलवर्गणाः प्ररूपयति-एकैकपरमाणुरूपाः तथा संख्यातप्रदेशा असंख्यातप्रदेशा अनन्तप्रदेशाच वर्गणा भवन्ति । तत्रैकैके परमाणवः परमाणुवर्गणाः । इह च वर्गणाशब्दः समुदायवाची वर्गणायोग्यत्वमादाय समर्थनीयः । एकैकस्मिन् परमाणौ वर्गणाशब्दोऽनेकपर्यायोपनिपातापेक्षया द्रष्टव्य इत्यप्याहुः । यदि च परमाणूनां वर्गणा परमाणुवर्गणेत्युच्येत तदा जगति ये केऽपि परमाणवस्तत्समुदायः परमाणुवर्गणा प्रसज्येत, तथा च तस्यां वक्ष्यमाणानुलासंख्यभागावगाहनाविरोधः, समुदितानां सर्वलोकगतत्वात् , तत एकके परमाणव एव परमाणुवर्गणाः, एताश्चानन्ताः, सर्वाग्रेण लोकव्यापिन्यश्च । परमाणुद्वयसमुदायरूपा द्विपरमाणुवर्गणाः, ता अप्यनन्ताः सकललोकच्यापिन्यश्च । एवं सर्वा अपि वर्गणाः प्रत्येकमनन्ताः सकललोकव्यापिन्यश्चावगन्तव्याः । त्रिपरमाणुसमुदायरूपास्त्रिपरमाणुवर्गणाः । एवमुत्तरोत्तरवृद्धया संख्येयपरमाण्वात्मकाः संख्येयवर्गणा वाच्याः। असंख्येयपरमाण्वात्मका असंख्याताः, असंख्यातस्यासंख्यातभेदात्मकत्वात् । अनन्तपरमाण्वात्मका यथोत्तरवृद्वयाऽनन्ताः, अनन्तस्यानन्तभेदात्मकत्वात् । एताश्च मूलत आरभ्य सर्वा अपि जीवानामल्पपरमाणुतया स्थूलपरिणामत्वेन चाग्रहणप्रायोग्याः, अनन्तपरमाण्वात्मका अप्यक्तिन्यो न ग्रहणप्रायोग्याः । यास्त्वभव्येभ्योऽनन्तगुणानां सिद्धानन्तभागकल्पानां परमाणूनां समुदायात्मकास्ताः 'आहारवग्गण'ति-आहारणमाहारो ग्रहणमित्यर्थः, आहार एव आहारकः, तत्मायोग्या वर्गणा भवन्ति, ग्रहणप्रायोग्या वर्गणा भवन्तीत्यर्थः । किं विषया इत्याह-'तित्तणू' इति । औदारिकवैक्रियाहारकरूपतनुत्रयविषया इत्यर्थः । एतास्तथा तैजसभाषाप्राणापानमनःकर्मणि विषयेऽग्रहणप्रायोग्यवर्गणान्तरिता ग्रहणप्रायोग्या वर्गणा भवन्ति । तथाहि-अभव्यानन्तगुणसिद्धानन्तभागकल्पपरमाणुसमुदायरूपा वर्गणौदारिकशरीरनिष्पादनाय ग्रहणप्रायोग्या भवति, सा च जघन्या । तत एकपरमाण्वधिकस्कन्ध ॥४८॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy