SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ मेकैकपरमाण्वधिकस्कन्धरूपा वर्गणास्तावद्वक्तव्या यावदुत्कृष्टा तुरीयध्रुवशून्यवर्गणा । जघन्यायाश्चोत्कृष्टाऽसंख्येयगुणा । गुणकारश्च प्रतरासंख्येयभागवर्त्यसंख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणो द्रष्टव्यः। तत एकपरमाण्वधिकस्कन्धरूपा वर्गणा जघन्या महास्कन्धवर्गणा। महास्कन्धवर्गणा नाम ये पुद्गलस्कन्धा विश्रसापरिणामेन टङ्ककूटपर्वतादिसमाश्रिताः । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया महास्कन्धवर्गणा । एवमेकैकपरणावधिकस्कन्धरूपा वर्गणास्तावद्वक्तव्या यावदुत्कृष्टा भवति । जघन्यायाश्चोत्कृष्टाऽसंख्येयगुणा । गुणका| रश्च पल्योपमासंख्येयभागरूपो द्रष्टव्यः । इमाश्च महास्कन्धवर्गणा यदा भूयान् त्रसकायो भवति तदा स्तोकाः प्राप्यन्ते यदा त्वल्प-% | स्तदा प्रभृता इति वस्तुस्वभाव एषः । एताश्च परमाणुवर्गणाद्या महास्कन्धवर्गणापर्यवसानाः ‘गुणणिफणसनाम'त्ति-गुणैः कृत्वा नि| पन्नं स्व-स्वकीयं नाम यासां ता गुणनिष्पन्नस्वनामानः । तथाहि-एकैके परमाणवः परमाणुवर्गणा, द्वयोः परमाण्वोर्वर्गणा द्विपरमाणु वर्गणाः, इत्येवं नाम्नां यथार्थता विद्यते एव । तथा 'असंखभागंगुलवगाहो'त्ति-सर्वासामपि वर्गणानामवगाहोऽङ्गुलस्यासंख्येयो भागः। । तथाहि-एता वर्गणाः सर्वा अपि सर्वोत्कृष्टमहास्कन्धवर्गणापर्यवसानाः प्रदेशापेक्षया यथोत्तरं महत्यः महत्तरा अपि भवन्त्यः प्रत्येक- 1% मेकैकाः सत्योऽङ्गुलासंख्येयभागमात्रक्षेत्रावगाहा एव विद्यन्ते। यदा पुनः सामस्त्येन प्रत्येक विवक्ष्यन्ते तदा सर्वा अप्येताः परमा. णुवर्गणाद्याः सर्वोत्कृष्टमहास्कन्धवर्गणापर्यवसानाः प्रत्येकमनन्तानन्ताः सकललोकाश्रिता अवगन्तव्याः। तथा कार्मणशरीरप्रायोग्यवगणात आरभ्यार्वाक यावदौदारिकशरीरप्रायोग्या वर्गणास्तावत् क्षेत्रावगाहोऽसंख्येयगुणो द्रष्टव्यः, तद्यथा-कर्मवर्गणावगाहक्षेत्रान्मनोवर्गणावगाहक्षेत्रं प्रदेशतोऽसंख्येयगुणम् , ततोऽप्यानपाणावगाहक्षेत्रं प्रदेशतोऽसंख्येयगुणमित्यादि ॥१८-१९-२० ॥ (उ०) ननु प्रायोग्यान् पुद्गलान् गृह्णात्यालम्बते चेत्युक्तं तत्र के पुद्गला ग्रहणप्रायोग्याः के चाग्रहणप्रायोग्या इति शिष्यजिज्ञा awasaSBG A SORS GOOGGCNEGDISE
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy