________________
कर्मप्रकृतिः
॥ ४७ ॥
| गुणा । गुणकारश्वासंख्येयलोकाकाशप्रदेशराशिप्रमाणो द्रष्टव्यः । तत एकपरमाण्वधिकस्कन्धरूपा जघन्या बादरनिगोदवर्गणा । अथ केयं बादरनिगोदद्रव्यवर्गणा नाम ? उच्यते - बादरनिगोदजीवानामौदारिकतैजसकार्मणेषु प्रत्येकं ये सर्वजीवानन्तगुणाः पुद्गला विश्र - | सापरिणामेनोपचयमायान्ति ते बादरनिगोदद्रव्यवर्गणा । तत्र बादरनिगोदजीवानां यद्यपि केषाञ्चित् कियत्कालं वैक्रियाहारकशरीरनामकर्मणी अपि संभवतः तथापि ते प्रथमसमयादेव निरन्तरमुद्वल्यमानत्वादत्यन्तमसारे इति न विवक्ष्येते । ततो द्विपरमाण्वधिकस्कन्धरूपा वर्गणा द्वितीया बादरनिगोदद्रव्यवर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा वर्गणास्तावद्वक्तव्या यावदुत्कृष्टा बादरनिगोदद्रव्यवर्गणा । | जघन्यायाश्चोत्कृष्टाऽसंख्येयगुणा । गुणकारश्च क्षेत्रपल्योपमासंख्येयभागलक्षणः । अत्र युक्तिः प्रत्येकशरीरिद्रव्यवर्गणायामिव परिभावनीया । तत एकपरमाण्वधिकस्कन्धरूपा जघन्या तृतीयध्रुवशून्यवर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया तृतीयध्रुवशून्यवर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा वर्गणास्तावद्वक्तव्या यावदुत्कृष्टा तृतीयध्रुवशून्यवर्गणा भवति । जघन्यायाश्चोत्कृष्टाऽसंख्येयगुणा । गुण| कारश्चाङ्गुलमात्रे क्षेत्रे आवलिकाया असंख्येयतमे भागे यावन्तः समयास्तावन्ति वर्गमूलानि गृह्यन्ते, गृहीत्वा च चरमस्य वर्गमूलस्यासंख्येयतमे भागे यावन्त आकाशप्रदेशास्तावत्प्रमाणो द्रष्टव्यः । तत एकपरमाण्वधिकस्कन्धरूपा वर्गणा जघन्या सूक्ष्मनिगोदद्रव्यवर्गणा । सा च सूक्ष्मनिगोदवर्गणा बादरनिगोदद्रव्यवर्गणावद विशेषेणावगन्तव्या यावदुत्कृष्टा । जघन्यायाश्चोत्कृष्टाऽसंख्येयगुणा । गुणकारश्चावलिकाया असंख्येयतमे भागे यावन्तः समयास्तावत्प्रमाणो द्रष्टव्यः यतः सूक्ष्मनिगोदजीवानां जघन्याद्योगस्थानादुत्कृष्टं योगस्थानं आवलिका संख्येयभागगुणितमेव प्राप्यते नाधिकम् । योगाधीना च कर्मप्रदेशोपचयवृद्धिः, तदधीना च सूक्ष्मनिगोदवर्गणेति । तत | एकपरमाण्वधिकस्कन्धरूपा वर्गणा जघन्या तुरीयध्रुवशून्यवर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया तुरीयध्रुवशून्यवर्गणा । एव
बन्धनकरणे
वर्गणात्र
रूपणा.
1180 11