________________
जघन्यप्रथमधुवशून्यवर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया प्रथमधुवशून्यवर्गणा। एवमेकैकपरमाण्वधिकस्कन्धरूपाः प्रथमध्रुव- श शून्यवर्गणास्तावद्वक्तव्या यावदुत्कृष्टा प्रथमधुवशून्यवर्गणा भवति । ध्रुवशून्यवर्गणा नाम याः कदाचनापि लोके न भवन्ति । केवलमुपरितनवगणानां बाहुल्यपरिज्ञानार्थ प्ररूपणामात्रमेव क्रियते । जघन्यायाश्च वर्गणायाः सकाशादुत्कृष्टा वर्गणाऽनन्तगुणा । गुणकारश्च सर्वजीवानन्तगुणराशिप्रमाणो द्रष्टव्यः । तत एकपरमाण्वधिकस्कन्धरूपा जघन्या प्रत्येकशरीरिद्रव्यवर्गणा । अथ केयं प्रत्येकशरीरिद्रव्यवर्गणा नाम ? उच्यते-प्रत्येकशरीरिणां यथासंभवमौदारिकवैक्रियाहारकतैजसकामणेषु शरीरनामकर्मसु ये प्रत्येकं विश्रसापरिणामेनो| पचयमापन्नाः सर्वजीवानन्तगुणाः पुगलास्ते प्रत्येकशरीरिद्रव्यवर्गणा । तत एकपरमाण्वधिकस्कन्धरूपा द्वितीया प्रत्येकशरीरिद्रव्यवर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपाः प्रत्येकशरीरिद्रव्यवर्गणास्तावद्वाच्या यावदुत्कृष्टा प्रत्येकशरीरिद्रव्यवर्गणा भवति । जघन्यायाश्वोत्कृष्टाऽसंख्येयगुणा । गुणकारश्च सूक्ष्मक्षेत्रपल्योपमासंख्येयभागलक्षणः । कथमेतदवसीयत इति चेद् ,उच्यते-इह सर्वोऽपि कर्मप्रदेशोपचयो योगाद्भवति, 'जोगा पयडिपएसं' इति वचनात् । ततो जघन्ये योगे सति जघन्यः कर्मप्रदेशोपचयो भवति, उत्कृष्टे चो|स्कृष्टः । जघन्याच्च योगस्थानादुत्कृष्टं योगस्थानं सूक्ष्मक्षेत्रपल्योपमासंख्येयभागगुणितमेव प्राप्यते, नाधिकम् । ततः कर्मप्रदेशोपचयादपि । जघन्यादुत्कृष्टः कर्मप्रदेशोपचयः सूक्ष्मक्षेत्रपल्योपमासंख्येयभागगुणित एव भवति, नाधिकः । तदाश्रिता च प्रत्येकशरीरिद्रव्यवर्गणा। ततः प्रत्येकशरीरिद्रव्यवर्गणाऽप्युत्कृष्टा जघन्यप्रत्येकशरीरिद्रव्यवर्गणापेक्षया सूक्ष्मक्षेत्रपल्योपमासंख्येयभागगुणितैव भवति । ततोऽनन्तरमेकपरमाण्वधिकस्कन्धरूपा जघन्या द्वितीयध्रुवशून्यवर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया द्वितीयध्रुवशून्यवर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा द्वितीयधुवशून्यवर्गणास्तावद्वक्तव्या यावदुत्कृष्टा द्वितीयध्रुवशून्यवर्गणा । जघन्यायाश्चोत्कृष्टाऽसंख्येय