SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥४६॥ | अनन्तगुणाः । ताभ्य आहारकशरीरप्रायोग्या वर्गणा अनन्तगुणाः । ताभ्योऽपि तैजसशरीरप्रायोग्या वर्गणा अनन्तगुणाः । एवं भाषा-1) प्राणापानमनःकर्मप्रायोग्या अपि वर्गणा यथोत्तरमनन्तगुणा वाच्याः। 'धुवअधुव' इत्यादि-कर्मप्रायोग्योत्कृष्टवर्गणानन्तरं ध्रुवाचित्तद्रव्य- बन्धन करणे वर्गणाः, तदनन्तरं चावैवाचित्तवर्गणाः, ततः 'सुन्ना चउ' त्ति-चतस्रो ध्रुवशून्यवर्गणाः । तासां च चतसृणां ध्रुवशून्यवर्गणानामन्तरे वर्गणाप्रउपरिष्टात् प्रत्येकतनुषु बादरसूक्ष्मनिगोदे महास्कन्धे च वर्गणा यथासंख्यं भवन्ति । तद्यथा-प्रथमध्रुवशून्यवर्गणाया उपरि प्रत्येकशरी रूपणा. वर्गणा, द्वितीयध्रुवशून्यवर्गणाया उपरि बादरनिगोदवर्गणा, तृतीयध्रुवशून्यवर्गणाया परि सूक्ष्मनिगोदवर्गणा, चतुर्थध्रुवशून्यवर्गणाया उपरि महास्कन्ध वर्गणा । तत्र कर्मप्रायोग्योत्कृष्टवर्गणानन्तरमेकपरमाण्वधिकस्कन्धरूपा जघन्या ध्रुवाचित्तद्रव्यवर्गणा । ततो द्विपरमा| ण्वधिकस्कन्धरूपा द्वितीया ध्रुवाचित्तद्रव्यवर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा ध्रुवाचित्तद्रव्यवर्गणास्तावद्वक्तव्या यावदुत्कृष्टा ध्रुवाचित्तद्रव्यवर्गणा । ध्रुवाचितद्रव्यवर्गणा नाम याः सर्वदेव लोके प्राप्यन्ते । तथाहि-एतासां मध्येऽन्या उत्पद्यन्तेऽन्या विनश्यन्ति, न पुनरेताभिः कदाचनापि लोको विरहितो भवति । अचित्तत्वं चासां जीवेन कदाचनापि अग्रहणादवसेयम् । जीवसंबन्धाद्धि सचित्तत्वमपि कथश्चित् स्यात् ,यथौदारिकादिशरीराणामिति । जघन्यायाश्च वर्गणायाः सकाशादुत्कृष्टा वर्गणा अनन्तगुणा। गुणकारश्च सर्वजीवानन्तगुणराशिप्रमाणो द्रष्टव्यः। तत एकपरमाण्वधिकस्कन्धरूपा जघन्याऽध्रुवाचित्तद्रव्यवर्गणा। ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीयाऽध्रु ॥४६॥ वाचित्तद्रव्यवर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा अधूवाचित्तद्रव्यवर्गणास्तावद्वाच्या यावदुत्कृष्टाऽध्रुवाचित्तद्रव्यवर्गणा भवति ।अध्रुवा| चित्तद्रव्यवर्गणा नाम यासां मधे काश्चिद्वर्गणाः कदाचिल्लोके भवन्ति कदाचिच्च न भवन्ति । अत एवैताः सान्तरनिरन्तरा अप्युच्यन्ते । जघन्यायाश्च वर्गणायाः सकाशादुत्कृष्टा वर्गणाऽनन्तगगा। गणकारश्च सर्वजीवानन्तगणराशिप्रमाणो द्रष्टव्यः। तत एकपरमाण्वधिकस्कन्धरूपा ||
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy