________________
परमाण्वधिकस्कन्धरूपा द्वितीया मनःप्रायोग्या वर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा मनःप्रायोग्या वर्गणास्तावदाच्या यावदुत्कृष्टा | मनःप्रायोग्या वर्गणा भवति । जघन्यायाश्चोत्कृष्टा विशेषाधिका । विशेषश्च तस्या एव जघन्याया वर्गणाया अनन्ततमो भागः । तत उत्कृष्टमनःप्रायोग्यवर्गणापेक्षया एकपरमाण्वधिकस्कन्धरूपा वर्गणा जघन्याऽग्रहणप्रायोग्या वर्गणा । ततो द्विपरमावधिकस्कन्धरूपा द्वितीयाऽग्रहणप्रायोग्या वर्गणा । एवमेकैकपरमावधिकस्कन्धरूपा अग्रहणप्रायोग्या वर्गणास्ताद्वाच्या यावदुत्कृष्टाऽग्रहणप्रायोग्या - वर्गणा । जघन्यायाश्चोत्कृष्टाऽनन्तगुणा । गुणकारश्चाभव्यानन्तगुणसिद्धानन्तभागकल्पराशिप्रमाणो द्रष्टव्यः । ततोऽग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षयकपरमाण्वधिकस्कन्धरूपा कर्मप्रायोग्या जघन्या वर्गणा। इह यानि पुद्गलद्रव्याणि जन्तवो ज्ञानावरणीयादिरूपतया | परिणमयन्ति तानि कर्मप्रायोग्या वर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया कर्मप्रायोग्या वर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपाः कर्मप्रायोग्या वर्गणास्तावद्वक्तव्या यावदुत्कृष्टा कर्मप्रायोग्यवर्गणा भवति । जघन्यायाश्चोत्कृष्टा विशेषाधिका । विशेषश्च तस्या एव जघन्याया वर्गणाया अनन्ततमो भागः । 'भासामणे य' इत्यत्र चशब्दस्यानुक्तसमुच्चयार्थत्वाद् भाषावर्गणानन्तरमग्रहणवर्गणान्तरिताः प्राणापानवर्गणा द्रष्टव्याः । ताश्च भाविता एव । 'कम्मे य' इत्यत्र चशब्दः समुच्चये । इदानीमेतासामेवौदारिकादिप्रायोग्यवर्गणानां वर्णादि निरूप्यते-तत्रौदारिकशरीरप्रायोग्या वर्गणा अनन्तानन्तपरमाण्वात्मकाः पञ्चवर्णा द्विगन्धाः पञ्चरसा | अष्टस्पर्शाश्च । एवं वैक्रियाहारकशरीरप्रायोग्या अपि वर्गणा द्रष्टव्याः। तैजसशरीरमायोग्या वर्गणाः पञ्चवर्णा द्विगन्धाः पञ्चरसाश्चतुः| स्पर्शाः। तत्र मृदुलघुरूपौ द्वौ स्पर्शाववस्थितौ, अन्यौ तु द्वौ स्पशौं स्निग्धोष्णौ स्निग्धशीतौ रूक्षोष्णौ रूक्षशीतौ वा । एवं भाषाप्राणापानमनःकर्मप्रायोग्या अपि वर्गणा द्रष्टव्याः । तथौदारिकवर्गणाः प्रदेशार्थतया सर्वस्तोकाः । ताभ्यो वैक्रियशरीरप्रायोग्या वर्गणा