________________
अन्तो मङ्गलं मे स्युः सिद्धाय मम मङ्गलम् । मङ्गलं साधवः सम्यग् जैनो धर्मश्च मङ्गलम् ॥७॥
॥ इति श्रीमलयगिरिविरचिता कर्मप्रकृतिटीका ।
(उ० ) इह शास्त्रस्यादावविघ्नपरिसमाप्तये मध्ये शिष्यप्रशिष्यादिपरम्परागमानयनस्थैर्याय, आगन्तुक विघ्नविनाशायेत्यन्ये, पर्यन्ते च प्रशिष्यादिभिरवधार्यमाणस्य शास्त्रस्य तचेतसि सुप्रतिष्ठितत्वभावनायाविच्छेदायेत्यन्ये, मङ्गलमवश्यमभिधातव्यम् । तत्रादिमङ्गलं 'सिद्धं सिद्धत्थसुर्य' इत्याद्युक्तं, मध्यमङ्गलं तु 'अकरणअणुइनाए अणुओगधरे पणिवयामि' इति, संप्रति पुनः पर्यवसानमङ्गलमाहयस्य वरमनुत्तरं यच्छासनं तदवयवस्योदयगिरिशिखररूपस्य स्पर्शात् प्रकर्षेण विकसिता उद्घोधमापन्ना विमला मिध्यात्व तमोमलरहिता मतिकिरणा ज्ञानसूर्याः कर्ममलिनान् जीवान् विमलयन्ति अविद्यारजनीविनाशनेन स्फुटप्रकाशान् कुर्वन्ति स भगवान् महावीरो वर्षमान स्वामी स्वप्रणीतशासनावयवस्पर्शनमात्रेण लोकानामनन्तज्ञानसूर्योत्पादकत्वेनाचिन्त्यातिशयः परमब्रह्मा मे मम संसारभयभीतस्य शरणं परित्राणहेतुः ॥ ५७ ॥
॥ अथ टीकाकृत्प्रशस्तिः ॥
ज्ञात्वा कर्म निखिलतनुभृतां दुःखसंदोहबीजं, तद्विध्वंसाय रत्नत्रयमयसमयं यो हितार्थी दिदेश । अन्तः संक्रान्तविश्वव्यतिकरविलसत्कैवलैकात्मदर्शः, स श्रीमान् विश्वरूपः प्रतिहतकुमतः पातु वो वर्द्धमानः ॥१॥ श्रीविजयादिदेवगुरोः पट्टाम्बराहर्मणौ, सूरि श्रीविजयादिसिंहसुगुरौ शक्रासने मेजुषि ।