SearchBrowseAboutContactDonate
Page Preview
Page 1485
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१६२॥ (मलय०)--इह शाखस्यादौ मध्येऽवसाने च मङ्गलमवश्यमभिधातव्यम् । आदिमङ्गलाभिधाने हि शास्त्रमविघ्नेन परिसमाप्तिमियर्ति, | मध्यमङ्गलाभिधानतश्च शिष्यप्रशिष्यादिपरम्परागमनेन स्थैर्यमाधत्ते, पर्यन्तमङ्गलाभिधानप्रभावतः पुनः शिष्यप्रशिष्यादिभिरवधार्यमाणं | प्रशस्तिः तेषां चेतसि सुप्रतिष्ठितं भवति । तत्रादिमङ्गलं 'सिद्ध सिद्धत्थसुयं' इत्याद्युक्तं, मध्यमङ्गलं तु. 'अकरणअणुइनाए अणुयोगधरे | पणिवयामि' इति, सम्प्रति पुनः पर्यवसानमङ्गलमाह-'जस्स'त्ति । यस्य-भगवतो महावीरस्य 'वरम्'-अनुत्तरं यच्छासनं तदवयवसंस्पर्शात् ये प्रकर्षण 'विकसिता'-उद्बोधं गता 'विमला'-अपगतमिथ्याज्ञानत्वरूपमला 'मतिकिरणा'-मतिरश्मयः ते 'कर्ममलिनान्'कर्मतमोमलीमसान् असुमतो 'विमलयन्ति'-विमलीकुर्वन्ति । 'स'-भगवान् महावीरो वर्धमानस्वामी 'मे'-मम संसारभयभीतस्य 'शरणं'-परित्राणहेतुः, नान्य इति ॥५७॥ ॥अथ टीकाकृत्प्रशस्तिः ॥ कर्मप्रपञ्च जगतोऽनुबन्धक्लेशावह वीक्ष्य कृपापरीतः । क्षयाय तस्योपदिदेश रत्नत्रयं स जीयाज्जिनवर्धमानः ॥१॥ निरस्तकुमतध्वान्तं सत्पदार्थप्रकाशकम् । नित्योदयं नमस्कुर्मो जैनसिद्धान्तभास्करम् ॥२॥ पूर्वान्तर्गतकर्मप्रकृतिप्राभृतसमुद्धृता येन । कर्मप्रकृतिरियमतः श्रुतकेवलिगम्यभावार्था ॥३॥ ततः क्व चैपा विषमार्थयुक्ता, क्व चाल्पशास्त्रार्थकृतश्रमोऽहम् । तथापि सम्यग्गुरुसंप्रदायात्, किश्चित्स्फुटार्था विवृता मयंपा ॥४॥युग्मम् ।। कर्मप्रकृतिनिधानं बह्वथ येन मादृशां योग्यम् । चक्रे परोपकृतये श्रीचूणिकृते नमस्तस्मै ॥५॥ १७॥१६२॥ एनामतिगभीरां कर्मप्रकृति विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाश्नुतां लोकः ॥६॥ ESSESIDEOS
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy