________________
कर्मप्रकृतिः
॥१३४॥
नाम्न बन्धोदयसत्तास्थानानांसंवेधः
DevaGee
| मिथ्यादृष्टीनां चावसेयौ । त्रिंशदुदयस्तियअनुष्याणां सम्यग्दृष्टीनां मिथ्यादृष्टीनां सम्यङिमथ्यादृष्टीनां च, तथाऽऽहारकसंयतानां | वैक्रियसयतानां च । एकत्रिंशदुदयः पञ्चेन्द्रियतिरश्वां सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा । नरकगतिप्रायोग्यां त्वष्टाविंशतिं बध्नता | त्रिंशदुदयः पञ्चन्द्रियतिर्यअनुष्याणां मिथ्यादृष्टीना, एकत्रिंशदुदयः पञ्चेन्द्रियतिरश्चां मिथ्यादृशाम् । अष्टाविंशतिबन्धकानां सामान्येन |
चत्वारि सत्तास्थानानि-द्विनवतिरेकोननवतिरष्टाशीतिः पडशीतिश्च । तत्रैकविंशत्युदये वर्तमानानां देवगतिप्रायोग्याष्टाविंशतिबन्ध| कानां द्विनवत्यष्टाशीतिलक्षणे द्वे सत्तास्थाने, एकविंशत्युदयस्थस्य तीर्थकरनामसत्कर्मणस्तद्वन्धोऽप्यवश्यं भावीत्येकोनत्रिंशद्वन्धकता | स्यादिति । देवगतिप्रायोग्याष्टाविंशतिबन्धकस्यैकविंशत्युदये न त्रिनवतिसत्ता । पञ्चविंशत्युदयेऽप्यष्टाविंशतिबन्धकानामाहारकसंयत. | वैक्रियतिर्यङ्मनुष्याणां सामान्येन ते एव द्वे सत्तास्थाने, तत्राहारकसंयतो नियमादाहारकसत्कर्मेति तस्य द्विनवतिरेव सत्तास्थानं, |
शेषाश्च तिर्यञ्चो मनुष्या वाऽऽहारकसत्कर्माणस्तद्रहिताश्च भवन्ति, ततस्तेषां द्वे अपि सत्तास्थाने । पशितिसप्तविंशत्यष्टाविंशत्येकोनत्रिंशदुदयेष्वप्येते एव द्वे सत्तास्थाने । त्रिंशदुदये देवगतिनरकगतिप्रायोग्याष्टाविंशतिबन्धकानां सामान्येन चत्वारि सत्तास्थानानि, तद्यथा-द्विनवतिरेकोननवतिरष्टाशीतिः षडशीतिश्च। तत्र द्विनवतिरष्टाशीतिश्च प्राग्वद्भावनीया । एकोननवतिस्त्वेवं-कश्चिन्मनुष्यस्तीर्थकरनामसत्कर्मा वेदकसम्यग्दृष्टिः प्राग्बद्धनरकायुष्को नरकगमनाभिमुखः सम्यक्त्वात् प्रच्युत्य मिथ्यात्वं गतः, तस्य तदा तीर्थकरनामबन्धाभावात् नरकगतिप्रायोग्यामष्टाविंशतिं बध्नत एकोननवतिः । षडशीतिश्चैवं-इह तीर्थकराहारकचतुष्टयदेवद्विकनरकद्विकवैक्रियचतुष्टयरहिता विनवतिरशीतिर्भवति, ततस्तावत्सत्कर्मा पश्चेन्द्रियतिर्यङ्मनुष्यो वा जातः सन् सर्वाभिः पर्याप्तिभिः पर्याप्तो यदि विशुद्धस्ततो देवगतिप्रायोग्यामष्टाविंशतिं बध्नाति तद्वन्धे च देवद्विकं वैक्रियचतुष्टयं च सत्तायां प्राप्यत इति तस्य पडशीतिः।
ScaDAKA
॥१३४॥