________________
RDCRanRODONDH
अथ सर्वसंक्लिष्टस्ततो नरकगतिप्रायोग्यामष्टाविंशतिं बध्नाति, तद्वन्धे च नरकद्विकं चैक्रियचतुष्टयं चावश्यं सत्तायां प्राप्यत इत्येवमपि तस्य पडशीतिः । एकत्रिंशदुदये द्विनवतिरष्टाशीतिः षडशीतिश्चेति त्रीणि सत्तास्थानानि, एकोननवतिरिह न प्राप्यते, एक
त्रिंशदुदयस्य पञ्चन्द्रियतिर्यक्ष प्राप्तस्तत्र च तीर्थकरनामसत्ताप्रतिषेधात् । पडशीतिस्थानभावना तु प्राग्वदेव । तदेवमष्टाविंशतिबन्धकाका नामष्टस्वप्युदयस्थानेष्वेकोनविंशतिः सत्तास्थानानि ।
एकोनत्रिंशति त्रिंशति च बध्यमानायां प्रत्येकं नव नवोदयस्थानानि सप्त सप्त च सत्तास्थानानि । तत्रोदयस्थानान्यमूनि| एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षट्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच्च । तत्रैकविंशत्युदयस्तियअनुष्य
प्रायोग्यामेकोनत्रिंशतं बध्नतां पर्याप्तापर्याप्तकेन्द्रियविकलेन्द्रियपश्चेन्द्रियतिर्यग्मनुष्याणां देवनैरयिकाणां च । चतुर्विंशत्युदयः पर्याप्ता| पर्याप्तकेन्द्रियाणाम् । पञ्चविंशत्युदयः पर्याप्त केन्द्रियाणां देवनैरयिकाणां वैक्रियतिर्यग्मनुष्याणां च मिथ्यादृष्टीनां । षविंशत्युदयः | | पर्याप्त केन्द्रियाणां पर्याप्तापर्याप्तविकलेन्द्रियतिर्यपश्चेन्द्रियमनुष्याणां च । सप्तविंशत्युदयः पर्याप्तकेन्द्रियाणां देवनैरयिकाणां वैक्रिय तिर्यग्मनुष्याणां च मिथ्यादृष्टीनां । अष्टाविंशत्युदय एकोनत्रिंशदुदयश्च विकलेन्द्रियतिर्यपञ्चेन्द्रियमनुष्याणां वैक्रियपञ्चेन्द्रिय| तिर्यग्मनुष्यदेवनैरयिकाणां च । त्रिंशदुदयो विकलेन्द्रियतिर्यपञ्चन्द्रियमनुष्याणां देवानां चोद्योतवेदकानाम् । एकत्रिंशदुदयः पर्याप्तविकलेन्द्रियतिर्यपश्चेन्द्रियाणामुद्योतवेदकानाम् । तथा देवगतिप्रायोग्यामेकोनत्रिंशतं बध्नतो मनुष्यस्याविरतसम्यग्दृष्टेरुदयस्था| नानि सप्त, तद्यथा-एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशच्च । आहारकसंयतानां वैक्रियसंयतानां चेमानि पञ्चोदयस्थानानि, तद्यथा-पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशत् । असंयतानां संयतासंयतानां च
SODrnak