________________
विंशतिसप्तविंशत्यष्टाविंशत्येकोनविंशत्रिंशद्रपेषु षट्मृदयस्थानेषु द्विनवतिरष्टाशीतिश्चेति द्वे द्वे सत्तास्थाने वाच्ये । अपर्याप्तविकलेन्द्रिय-IY तिर्यपश्चन्द्रियमनुष्यप्रायोग्यां तु पश्चविंशतिं देवा न बध्नन्ति, अपर्याप्तेषु विकलेन्द्रियेषु च मध्ये देवानामनुत्पादात । सामान्येन | पञ्चविंशतिबन्धे षड्विंशतिबन्धे च प्रत्येकं नवाप्युदयस्थानानि प्रतीत्य चत्वारिंशञ्चत्वारिंशत्सत्तास्थानानि । तथाऽटाविंशतौ वध्यमा-| नायामष्टावृदयस्थानानि, तद्यथा-एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच । इहाटाविंशतिद्वैधा-देवगतिप्रायोग्या नरकगतिप्रायोग्या च, तत्र देवगतिप्रायोग्याया बन्धेऽष्टावप्युदयस्थानानि नानाजीवापेक्षया प्राप्यन्ते, | नरकगतिप्रायोग्यायास्तु बन्धे त्रिंशदेकत्रिंशचेति द्वे । तत्र देवगतिपायोग्याष्टाविंशतिबन्धकानामेकविंशत्युदयः क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा पञ्चन्द्रियतिर्यडूमनुष्याणामपान्तरालगतौ वर्तमानानामवसेयः, न मिथ्यादृष्टेः, यतो भवादौ सर्वपर्याप्ति-1 पर्याप्त एव मिथ्यादृष्टीर्देवगतिप्रायोग्याऽष्टाविंशतिबन्धकः । एकविंशतिपञ्चविंशतिपदविंशतिसप्तविंशत्यष्टाविंशत्येकोनत्रिंशदयवर्ती चापर्याप्त एवेति । वैक्रियतिर्यङ्मनुष्याणां च पञ्चविंशत्याद्युदये वर्तमानानां मिथ्यादृष्टीनां यद्देवगतिप्रायोग्याष्टाविंशतिबन्धकत्वं वक्ष्यते तद्भवादौ पूरितपर्याप्तिकस्यापि पश्चाद्वैक्रियाङ्गनिष्पत्तिकाले औदारिकादितनुनिवृत्तौ पर्याप्युदयनिवृत्तिमभिप्रत्येत्यदोष इति स्मर्तव्यम् । पञ्चविंशत्युदय आहारकसंयतानां वैक्रियतियङ्मनुष्याणां च सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा । षडविंश
त्यदयः क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा पञ्चन्द्रियतियङ्मनुष्याणां शरीरस्थानाम् । सप्तविंशत्युदय आहारकसंय घातानां वैक्रियतिर्यङ्मनुष्याणां च सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा। अष्टाविंशत्येकोनत्रिंशदुदयावपि यथाक्रमं शरीरपर्याप्या पर्याप्तानां
तिर्यामनुष्याणां क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा, तथाऽऽहारकसंयताना, वैक्रियतिर्यङ्मनुष्याणां तु सम्यग्दृष्टीनां 14)