SearchBrowseAboutContactDonate
Page Preview
Page 1414
Loading...
Download File
Download File
Page Text
________________ अत्र तिर्यग्गत्युद्योतनाम्नोरुदयव्यवच्छेदः । ततः प्रमत्तसंयतेऽप्रमत्तसंयते च द्विचत्वारिंशत्प्रकृतीनामाहारकद्विकस्य चाधिकस्योदयो | द्रष्टव्यः । इहान्तिमानां त्रयाणां संहननानामुदयव्यवच्छेदः, तथाऽऽहारकद्विकमपि श्रेण्यामुदये न प्राप्यत इत्यपूर्वकरणादिषपशान्तमो| हपर्यवसानेष्वेकोनचत्वारिंशत्प्रकृतीनामुदयोऽवगन्तव्यः । उपशान्तमोहे द्वितीयतृतीयसंहननयोरुदयव्यवच्छेदः, तेन क्षीणकषाये सयोगिकेवलिनि च शेपाणां सप्तत्रिंशत्प्रकृतीनामेवोदयो भवति, क्वचित् सयोगिकेवलिनि तीर्थकरनाम्नोऽपि, तत्र च नामधवोदयद्वादश-| कवरद्विकखगतिद्विकौदारिकद्विकप्रत्येकोपघातपराघातोवाससंस्थानषटकाद्यसंहननलक्षणानामेकोनत्रिंशत्प्रकृतीनामुदयव्यवच्छेदः । ततोऽयोगिकेवलिनि अष्टानां नवानां वोदयः, ताश्चोक्ता एव । तदेवं चिन्तितो गुणस्थानेषु नामोदयव्यवच्छेदः, तचिन्तनाचाभिहितः सप्रपञ्चमुदयः। 2GDISHAROHORS
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy