SearchBrowseAboutContactDonate
Page Preview
Page 1413
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥ १२६ ॥ Na अथ नैरयिकाणामुच्यन्ते तत्र नैरयिकाणामुदयस्थानानि पञ्च तद्यथा - एकविंशतिः पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् । तत्र नरकद्विकं पञ्चेन्द्रियजातिस्त्रस बादरपर्याप्तानि दुर्भगमनादेयमयशः कीर्त्तिश्चेत्येता नव द्वादशसंख्ययाभिधुवोद यिनीभिः सहिता एकविंशतिः, अत्र सर्वाण्यपि पदान्यप्रशस्तान्येवेत्येक एव भङ्गः एवमन्यत्रापि ज्ञेयम् । ततः शरीरस्थस्य वैक्रियद्विकं प्रत्येकं हुण्डमुपघातमिति पञ्च प्रकृतयः क्षिप्यन्ते नरकानुपूर्वी चापनीयते, ततो जाता पञ्चविंशतिः । ततः शरीरेण पर्याप्तस्य पराघातेSप्रशस्तखगतौ च प्रक्षिप्तायां सप्तविंशतिः । ततः प्राणापानेन पर्याप्तस्योकासे क्षिप्तेऽष्टाविंशतिः । ततो भाषापर्याप्तस्य दुःखरे क्षिप्ते एकोनत्रिंशत् । सर्वसङ्घधया नैरयिकेषु भङ्गाः पञ्च । समग्रोदयस्थानभङ्गाः पुनः सप्तसप्ततिशतान्येकनवत्यधिकानि । अथ नामप्रकृतीनामेव गुणस्थानके उदयव्यवच्छेदश्चिन्त्यते - इह मिध्यादृष्टिगुणस्थाने नानाजीवानपेक्ष्य तीर्थकराहारकद्विकवर्जि तानां सर्वासामपि नामप्रकृतीनां चतुःषष्टिसंख्यानामुदयः संभवति । तत्र साधारण सूक्ष्मापर्या सातपानां मिथ्यादृष्टावुदयो व्यवछिद्यते । व्यवच्छेदो नाम तत्र भाव उत्तरत्राभावः । तथा सासादने स्थावरै केन्द्रिय विकलेन्द्रियजातीनामुदयव्यवच्छेदः, इह पूर्वोक्तानां साधारणादीनामुदयासंभवात् षष्टिप्रकृतीनामुदयः । सम्यग्मिथ्यादृष्टौ च स्थावरादिपञ्चप्रकृतीनां सासादने व्यवच्छिन्नानामुदयो न भवति, | तथा तस्य कालकरणाभावेनानुपूर्वीणामप्युदयो न भवतीत्येक पञ्चाशत्प्रकृतीनामुदयः । अविरतसम्यग्दृष्टिस्त्वपान्तरालगतावपि प्राप्यत इति तत्र चतसृणामप्यानुपूर्वीणामुदयः सम्भवतीति ततस्तत्र पञ्चपञ्चाशत्प्रकृतीनामुदयः । देवद्विकनरकद्विकवैक्रियद्विकदुर्भगानादेया यशः कीर्त्तितिय मनुष्यानुपूर्वीणां सर्वसंख्ययैकादशप्रकृतीनामत्रोदयव्यवच्छेदः । अत्र च वैक्रियद्विकस्य निषेधः कर्मस्तत्रस्याभिप्रायेण, न तु पञ्चसंग्रहस्य, तन्मते देशविरतप्रमत्ताप्रमत्तेषु तदुदयाभ्युपगमादिति स्मर्त्तव्यम् । ततो देशविरते चतुश्चत्वारिंशत्प्रकृतीनामुदयः । 2xaak नाम्नः जीवे पृदयस्थानानि भंगाच !!१२६ ॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy