________________
४ा एकयोभङ्गावतीर्थकृतः, एकविंशतिसप्तविंशत्ये कोनविंशत्रिंशदेकत्रिंशन्नवगताच पदभङ्गास्तीर्थकृत इति विवेकः । सर्वसङ्ख्यया मनुष्या 16
णामुदयस्थानभङ्गाः द्वे सह से पद् शतानि द्विपञ्चाशच । तदेवमुक्तानि मनुष्याणामुदयस्थानानि।। ___अथ देवानामुच्यन्ते-देवानामुदयस्थानानि पद् , नद्यथा-एकविंशतिः पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशच ।
तत्र देवादिकं पश्चन्द्रियजातिवसं बादरं पर्याप्तं सुभगदुर्भयोरेकतरं आदेयानादेययोरेकतरं यशःकीय॑यशःकीच्योरेकतरेति नव प्रागुक्ता-२ * भिदिशभिर्धवोदयिनीभिः सहितकविंशतिः, अत्र सुभगदुर्भगादेयानादेययश-कीर्य यशःकीर्तिभिरष्टौ भङ्गाः, इह च दुर्भगानादेया
यशःकी नामुदयः पिशाचादीनामवसेयः। ततः शरीरस्थस्य वैक्रियद्विकमुपघातं प्रत्येकं समचतुरसमिति पश्च प्रकृतयः क्षिप्यन्ते | देवानुपूर्वी चापनीयते, ततो जाता पञ्चविंशतिः, अत्रापि भङ्गास्तथैवाष्टौ । ततः शरीरेण पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च
क्षिप्तायां सप्तविंशतिः, अत्रापि भङ्गाः प्राग्वदष्टौ । देवानामप्रशस्तविहायोगतेरुदयो न भवतीति तदाश्रिता विकल्पा न लभ्यन्ते । ततः | प्राणापानेन पर्याप्तस्योच्छ्वासे क्षिप्तेऽष्टाविंशतिः, अत्रापि प्राग्वदष्टौ भङ्गाः, अथवा शरीरेण पयाप्तस्योच्छ्वासेऽनुदिते उद्योते तूदिते- | ऽष्टाविंशतिः, इहापि भङ्गाः प्राग्वदष्टौ,, सर्वसङ्ख्ययाऽटाविंशतो भङ्गाः षोडश । ततो भाषापर्याप्तस्य सुस्वरे क्षिप्ते एकोनत्रिंशत् , इहापि भङ्गाः प्राग्वदष्टौ । दुःस्वरोदया देवा न भवन्तीति तदाश्रितविकल्पा न भवन्ति, अथवा प्राणापानेन पर्याप्तस्य सुस्वरेऽनुदिते उद्योते तृदिते एकोनत्रिंशत् , उत्तरक्रियं हि कुर्वतो देवस्योद्योतोदयो लभ्यते, अत्रापि प्राग्वदष्टौ भङ्गाः, सर्वसंख्ययकोनविंशति पोडश भङ्गाः । ततो भाषापर्याप्तस्य सुस्वरसहितायामेकोनत्रिंशत्युद्योते क्षिप्ते त्रिंशत् , अत्रापि भङ्गाः प्राग्वदष्टौ । सर्वसंख्यया देवानां भङ्गाश्चतुःषष्टिः । तदेवमुक्तानि देवानामुदयस्थानानि ।
TOOGrassment