SearchBrowseAboutContactDonate
Page Preview
Page 1408
Loading...
Download File
Download File
Page Text
________________ उक्त ते अत्र विहायोगतिद्विकेन गुणिते अवगन्तव्ये, तथा च सत्यत्र भङ्गानां पञ्च शतानि पदमप्तत्याधकाान भवान्त । ततः प्राणा-II पानपर्याप्त्या पर्याप्तस्योवासे क्षिप्ते एकोनत्रिंशत् । अत्रापि भङ्गाः प्राग्वत् पञ्च शतानि षट्सप्तत्यधिकानि, अथवा शरीरपर्याप्त्या पर्याप्तस्योवासेऽनुदिते उद्योतनाम्नि तूदिते एकोनत्रिंशत, अत्रापि भङ्गाः पञ्च शतानि षट्सप्तत्यधिकानि, सर्वसंख्यया भङ्गानामेकोनत्रिंशति द्विपश्च.शदधिकान्येकादश शतानि । ततो भाषापर्याप्त्या पर्याप्तस्य सुस्वरदुःस्वरयोरन्यतरस्मिन् प्रक्षिप्ते त्रिंशद्भवति । अत्र ये उच्छ्वासेन षट्सप्तत्यधिकपञ्चशतप्रमाणा भङ्गा उक्तास्ते स्वरदिकेन गुण्यन्ते, जातान्येकादश शतानि द्विपञ्चाशदधिकानि, अथवा प्राणा पानपर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते त्रिंशद्भवति । अत्र भङ्गानां पञ्च शतानि पटाप्तत्यधिकानि. सर्वसंख्यया त्रिंशति भङ्गानां सप्तदश शतान्यष्टाविंशत्यधिकानि । ततः स्वरसहितायां त्रिंशत्युद्योतनाम्नि प्रक्षिप्ते एकात्रंशद्भवति, तत्र ये स्वरसहितायां १६ त्रिंशति द्विपञ्चाशदधिककादशशतसंख्या भङ्गा उक्तास्त एवात्रापि द्रष्टव्याः । सर्वसंख्यया प्राकृतपश्चेन्द्रियतिरश्चां भङ्गाश्चत्वारि सह-13 स्राणि नव शतानि पद् च । अथ वैक्रियं कुर्वतां तिर्यपञ्चेन्द्रियाणामुदयस्थानानि वाच्यानि, तानि च पञ्च, तथाहि-पश्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशञ्च । तत्र वैक्रियद्विकं समचतुरसमुपघातं प्रत्येकमिति पञ्च पकृतयः प्रागुक्तायां तिर्यपश्चेन्द्रियप्रायोग्यामेकविंशतौ प्रक्षिप्यन्ते, तिर्यगानुपूर्वी चापनीयते, ततः पञ्चविंशतिः स्यात् , इह सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशः-| कीय॑यशःकीर्तिभ्यां च भङ्गा अष्टौ। ततः शरीरेण पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च क्षिप्तायां सप्तविंशतिः, तत्रापि भङ्गाः प्राग्वदष्टौ । ततः प्राणापानेन पर्याप्तस्योच्छ्वासे क्षिप्तेऽष्टाविंशतिः, अत्रापि भङ्गाः प्राग्वदष्टौ, अथवा शरीरपर्याप्त्या पर्याप्तस्योवासे| नुदिते उद्योते तूदितेऽष्टाविंशतिः, अत्रापि भङ्गाः प्राग्वदष्टौ, सर्वसंख्ययाऽष्टाविंशतो भङ्गाः षोडश । ततो भाषया पर्याप्तस्योच्छ्वासस DISHADDOOD
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy