SearchBrowseAboutContactDonate
Page Preview
Page 1396
Loading...
Download File
Download File
Page Text
________________ भावादत्रापि तदाश्रिता भङ्गान प्राप्यन्ते । तदेवं सर्वसङ्ख्यया पञ्चविंशतिबन्धे विंशतिर्भङ्गाः । सैव पञ्चविंशतिरातपसहिता पइविंशतिर्भवति । नवरमिहातपस्थाने उद्योतमपि विकल्पेन प्रक्षेप्यं, पर्याप्तकेन्द्रियप्रायोग्यबन्धे उद्योतस्यापि बन्धसंभवात् । अत्र भङ्गाः षोडश, ते चातपोद्योतस्थिरास्थिरशुभाशुभयशाकीय॑यशःकीर्तिपदैरवसेयाः । आतपोद्योताभ्यां च सह सूक्ष्मसाधारणयोर्वन्धो न भवति,ततस्तदाश्रिता विकल्पा नोपजायन्ते । तदेवमेकेन्द्रियप्रायोग्यवन्धस्थानत्रये सर्वसङ्ख्यया चत्वारिंशद्भङ्गाः। ___ अथ द्वीन्द्रियप्रायोग्यबन्धस्थानवक्तव्यमुच्यते-तत्र प्रागुक्ता त्रयोविंशतिः स्थावरनामापनयनात्ततश्चावश्यं मूक्ष्मसाधारणयोः स्थाने | बादरप्रत्येकनामप्रक्षेपात्सेवात्तसंहननत्रसनामौदारिकाङ्गोपाङ्गनाम्नां चाधिकानां प्रक्षेपावीन्द्रियस्य प्रायोग्या पञ्चविंशतिर्भवति । सा चैव मभिलाप्या तिर्यग्गतिस्तिर्यगानुपूर्वी द्वीन्द्रियजातिरौदारिकतैजसकार्मणानि हुण्डसंस्थान सेवार्तसंहननमौदारिकाङ्गोपाङ्गं वर्णादिचतुष्टयमगुरुलघूपघातत्रसबादरापर्याप्तप्रत्येकास्थिराशुभदुर्भगानादेयायशःकीर्तिनिर्माणानि चेति । एषा चापर्याप्ततीन्द्रियप्रायोग्यं बध्नतो मिथ्या| दृष्टेरवसेया। अत्र प्रतिपक्षभूता परावर्त्तमाना प्रकृतिरेकापि न बन्धमेतीत्येक एव भङ्गः । एषैव पञ्चविंशतिर्दुःस्वरपराघातोच्छ्वासाशुभविहाEM योगतियुक्ता एकोनत्रिंशद् भवति । एषा च पर्याप्तद्वीन्द्रियप्रायोग्यं बनतो मिथ्यादृष्टेज्ञेया । अत एवापर्याप्तकस्थाने पर्याप्त प्रक्षिप्यते. पर्याप्तकबन्धे च स्थिर शुभयश कीर्तयोऽपि बन्धमायान्तीति ता अप्यस्थिराशुभायशकीर्तिस्थाने विकल्पेन प्रक्षेप्तव्याः। अत्र स्थिरास्थिर| शुभाशुभयशःकीर्त्ययश कीर्तिपदैरष्टौ भङ्गाः । सवैकोनत्रिंशदुद्योतसहिता त्रिंशत् । अत्रापि त एवाष्टौ भङ्गाः । सर्वसङ्ख्यया सप्तदश । एवं त्रीन्द्रियप्रायोग्याणि चतुरिन्द्रियप्रायोग्याणि च त्रीणि त्रीणि बन्धस्थानानि । तेषु च प्रत्येकं सप्तदश सप्तदश भङ्गा वाच्याः। नवरं |त्रीन्द्रियाणां त्रीन्द्रियजातिश्चतुरिन्द्रियाणां चतुरिन्द्रियजातिरमिलाया। GSPOSE KA
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy