SearchBrowseAboutContactDonate
Page Preview
Page 1395
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः ॥११७॥ तिरपर्याप्त कै केन्द्रियस्य प्रायोग्या द्रष्टव्या । इहापर्याप्त कै केन्द्रियमायोग्याः पञ्चविंशतिप्रकृतयः प्राक् संभवत उपात्तास्ततो चादर प्रत्येकरूपाभ्यां द्वाभ्यामुद्धरिताभ्यां प्रकृतिभ्यां प्रक्षिप्ताभ्यां सूक्ष्मसाधारणयोः प्रतिपक्षभृतयोः संचारणे त्रयोविंशतौ चत्वारो भङ्गा भवन्ति । तथाहि - बादरनाम्नि बध्यमाने एका त्रयोविंशतिः प्रत्येकनाना सह प्राप्यते, द्वितीया साधारणनाम्ना । एवं सूक्ष्मनाम्नयपि बध्यमाने द्वे त्रयोविंशती इति । तदेवमुक्तम पर्याप्त कै केन्द्रियप्रायोग्यवक्तव्यम् । पर्याप्त कै केन्द्रियप्रायोग्यबन्धस्थानचिन्तायामपर्याप्तकमपनीय पर्याप्तकं | प्रक्षेप्यम् । सैव च त्रयोविंशतिः पराघातोच्छ्वाससहिता पञ्चविंशतिर्भवति, सा च पर्याप्त कै केन्द्रियप्रायोग्यं बध्नतो मिथ्यादृष्टेरवगन्तव्या । इह पर्याप्त केन्द्रियप्रायोग्याः प्रागातपेन सह द्वात्रिंशत्प्रकृतयः संभविन्य उक्तास्तत्र पञ्चविंशतिबन्धे आतपमुद्योतं वा न संभवति उच्छ्वासपराघाते च प्रक्षिप्ते इति, स्थिरशुभयशः कीर्तिरूपास्तिस्रः प्रकृतय उद्धरितास्तिष्ठन्ति, ताथास्थिराशुभायशः कीर्त्तिप्रतिपक्षभूताः, ततो विकल्पेन तासामेव स्थाने प्रक्षेप्तव्याः । तथा च सत्येवमभिलापः - तिर्यग्गतिस्तिर्यगानुपूर्वी एकेन्द्रियजातिरौदारिकतैजसकार्म|णानि हुण्डं वर्णादिचतुष्टयमगुरु लघूपघातोच्छ्वासस्थावरपराधातनामानि पर्याप्तं वादरसूक्ष्मयोरेकतरं प्रत्येकसाधारणयोरेकतरं स्थिरास्थिरयोरेकतरं शुभाशुभयेोरेकतरं यशः कीर्त्त्य यशःकीच्योरेकतरा दुर्भगमनादेयं निर्माण चेति । अत्र विंशतिर्भङ्गाः, तत्र बादरपर्याप्तप्रत्येकस्थिरशुभेषु बध्यमानेषु यशः कीर्त्त्या सहको द्वितीयश्चायशः कीर्त्त्या, एतौ च द्वौ शुभेन लब्धौ एवमशुभेनापि द्वौ लब्धौ ततो जाताश्चत्वारः, एते चत्वार स्थिरेण लब्धाः, एवमस्थिरेणापि चत्वारो लभ्यन्ते, जाता अष्टौ, ते च बादरपर्याप्तप्रत्येकैः सह लब्धाः । यदा तु प्रत्येकस्थाने साधारणमभिषिच्यते तदा स्थिरास्थिरशुभाशुभायशः कीर्त्तिभिश्वत्वारः साधारणेन सह यशः कीर्तिबन्धप्रतिषेधात्तदाश्रितभङ्गाप्राप्तेः । सूक्ष्मपर्याप्तनाम्नोस्तु बध्यमानयोः प्रत्येकसाधारणस्थिरास्थिरशुभाशुभायशः कीर्त्तिभिरष्टौ । सूक्ष्मेणापि सह यशः कीर्त्तर्वन्धा 2212 गतिप्रायोग्याणिनास्नोबन्धस्थानानि ॥११७॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy