________________
H
IYएतानि सर्वाण्यपि बन्धस्थानान्यदर एवाग्रे भावयिष्यन्ते । सम्प्रति गुणस्थानानि चिन्त्यते-तत्र मिथ्यादृष्टौ पट् नामबन्धाः-त्रयोवि-16
शतिपञ्चविंशतिषड्विंशत्यष्टाविंशत्येकोनविंशत्रिंशल्लक्षणाः, ते च चतुर्गतिप्रायोग्यबन्धसंभवेन भावनीयाः। सासादनेऽष्टाविंशत्येकोनत्रिंशत्रिंशल्लक्षणानि त्रीणि बन्धस्थानानि, तत्र तिरश्चो मनुष्यस्य वा सासादनस्य देवगतिप्रायोग्यं बध्नतोऽष्टाविंशतिः, देवस्य नारकस्य वा सासादनस्य तिर्यग्मनुष्यप्रायोग्य वध्नत एकोनत्रिंशत् , तिर्यप्रायोग्यं बध्नतस्त्रिंशत् । सम्यग्मिथ्यादृष्टौ द्वे बन्धस्थाने-अष्टाविंशतिरेकोनत्रिंशच्च, तत्र तिरश्चो मनुष्यस्य वा देवंगतिप्रायोग्यं बध्नतोऽष्टाविंशतिः, देवस्य नारकस्य वा नृगतिप्रायोग्यं बध्नत एकोनत्रिंशत् । अविरतसम्यग्दृष्टावष्टाविंशत्येकोनविंशत्रिंशल्लक्षणानि त्रीणि बन्धस्थानानि, तत्र तिर्यअनुष्याणां देवगतिप्रायोग्य बध्नतामष्टाविंशतिः, मनुष्याणां देवतिप्रायोग्य बनतामेकोनत्रिंशत्, देवनारकाणां मनुष्यगतिप्रायोग्यं बध्नतामेकोनविंशत्रिंशच । देशविरते प्रमत्ते च द्वे द्वे / बन्धस्थाने अष्टाविंशत्येकोनत्रिंशल्लक्षणे । एते च द्वे अपि देवगतिप्रायोग्यं बध्नतो वेदितव्ये । तत्रापि देशविरतस्य तिरश्चोऽष्टाविंशतिरेव, | मनुष्यस्य तु द्विविधस्यापि द्वे अपि। अथ प्रमत्तसंयते आहारकद्विकस्य कथं न बन्धः तद्बन्धस्य संयमप्रत्ययत्वात्,मैवं, तत्बन्धस्य विशि
संयमप्रत्ययत्वात्तादृशस्य च विशिष्टसंयमस्याप्रमत्तादिगुणस्थान एव भावात् । अप्रमत्तेष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशल्लक्षणानि चत्वारिबन्धस्थानानि । अपूर्वकरणेऽष्टाविंशत्यादीनि पश्च बन्धस्थानानि, तत्र चत्वारि प्रागुक्तान्येव, पञ्चमं तु यशःकीर्तिरूपैकप्रकृत्यात्मक| मिति । नवमदशमयोस्तु गुणस्थानयोर्यशःकीर्त्तरेकस्या एव बन्धः । तदेवं गुणस्थानेषु बन्धस्थानान्युक्तानि । अथैकेन्द्रियादिप्रायोग्याणि यानि त्रयोविंशत्यादीनि स्थानानि प्रागुक्तानि तानि भावयितुमुपक्रम्यते-तत्र तिर्यग्गतिस्तिर्यगानुपूर्वी एकेन्द्रियजाति स्वरवर्ज स्थावरदशकं तैजसकार्मणवर्णादिचतुष्टयागुरुलधूपघातनिर्माणाख्या नामध्रुवबन्धिन्य औदारिकशरीरं हुण्डसंस्थानं चेत्येषा त्रयोविंश
दOICE