SearchBrowseAboutContactDonate
Page Preview
Page 1393
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥११६॥ गतिषुनानोबन्ध स्थानानि अथ बन्धस्थानानि नाम्न विवियन्ते । तत्राष्टौ बन्धस्थानानि-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशदेकत्रिंशदेका चेति । एतेषां मध्ये यति यस्यां गतौ वर्तमानो बध्नाति तस्यां गतौ तति बन्धस्थानानि प्ररूप्यन्ते-तत्र मनुजगतौ वर्तमानो जीवः सर्वाण्यपि नाम्नो बन्धस्थानानि यथासंभवं बध्नाति । तथाहि-मनुष्यः सर्वास्वपि गतित्पद्यते, तत्रैकेन्द्रियेषु मध्ये उत्पित्सुत्र योविंशतिं पश्चविंशति पड्विंशतिं वा बध्नाति, विकलेन्द्रियेपूत्पित्सुः पञ्चविंशतिमेकोनत्रिंशतं त्रिंशतं वा, नरकेषत्पित्सुरष्टाविंशति, देवगतावुत्पित्सुरष्टाविंशतिमेकोनत्रिंशतं त्रिंशतमेकत्रिंशतं च, क्षपकश्रेण्यामुपशमश्रेण्यां च वर्तमान एकामिति । तथा तिर्यग्गतौ वर्तमान आद्यानि षट् बन्धस्थानानि यथायोगं बध्नाति, तिरश्चोऽपि यथायोगं चतसृष्वपि गतिषु गमनसंभवात् , यस्तु देवगतिप्रायोग्य एकत्रिंशद्ः | बन्धः स तीर्थकराहारकबन्धसहितः एकविधवन्धश्च श्रेणिगतस्येति तौ निपिध्येते तिरश्चः । तथा नरकगतौ वर्तमान एकोनत्रिंशतं त्रिंशतं वा बध्नाति, यतोऽवश्यं नारकः पर्याप्तषु तिर्यक्षु मनुष्येषु वा मध्ये समुत्पद्यते, तत्प्रायोग्यश्चैकोनत्रिंशद्वन्धः, यस्तु नारकः श्रेणिकादिवद्भावितीर्थकरः स मनुष्यगतिप्रायोग्यं बध्नस्त्रिंशतं बध्नाति । तथा देवगतौ वर्तमानः पञ्चविंशति पड्विंशतिमेकोनत्रिंशतं त्रिंशतं वा बध्नाति, तत्र पञ्चविंशतिं पृथिव्यम्बुवनस्पतिषु मध्ये समुत्पित्सुः, तामेव पञ्चविंशतिमातपप्रक्षेपेण पविंशति खरबादरपृथिवीकायिकेषु समुत्पद्यमानः । एकोनविंशत्रिंशद्भावना च नारकवत् । तदेवं नाम्नो बन्धस्थानानां गतिभेदेन बन्धका उक्ताः । अथ कस्या गतेः प्रायोग्य बनतः कति बन्धस्थानानि प्रायोग्यानि भवन्तीत्येतन्निरूप्यते-नारकगतिप्रायोग्य बध्नत एकमेवाष्टाविंशतिरूपं बन्धस्थानं, देवगतिप्रायोग्य बनतोऽष्टाविंशत्येकोनविंशत्रिंशदेकत्रिशल्लक्षणानि चत्वारि, एकेन्द्रियप्रायोग्य बनतस्त्रयोविंशतिपञ्चविंशतिषड्विंश- तिलक्षणानि त्रीणि, द्वीन्द्रियादितिर्यग्गतिमनुष्यगतिगमनप्रायोग्यं बनतः पञ्चविंशत्येकोनविंशत्रिंशल्लक्षणं बन्धस्थानत्रयमवाप्यते । ॥११६॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy