SearchBrowseAboutContactDonate
Page Preview
Page 1397
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥११८॥ गतिप्रायोग्याणिनाम्नोबन्धस्थानानि तिर्यपञ्चन्द्रियप्रायोग्यमपि वध्नतस्त्रीणि बन्धस्थानानि, तद्यथा-पञ्चविंशतिरेकोनविंशत्रिंशत् । तत्र पञ्चविंशतिीन्द्रियप्रायोग्यं बध्नत इव ज्ञेया, नवरं द्वीन्द्रियजातिस्थाने पञ्चेन्द्रियजातिरभिलाप्या। सैव पञ्चविंशतिः पराघातोच्छासदुःस्वराप्रशस्तविहायोगतिभिः सहकोनत्रिंशद्भवति । सा च पर्याप्ततिर्यपञ्चेन्द्रियप्रायोग्यं बध्नतोऽवसेया, तत्प्रायोग्यबन्धारम्भे च सुस्वरसुभ| गादेयप्रशस्तविहायोगत्याद्यसंहननपञ्चकाद्यसंस्थानपञ्चकलक्षणाचतुर्दश प्रकृतयोऽन्या अपि बन्धमाश्रित्य संभवन्ति, ताश्च दुःस्वरादीनां प्रतिपक्षभृताः, ततो विकल्पेन दुःस्वरदुर्भगानादेयानां स्थाने सुस्वरसुभगादेयानामप्रशस्तविहायोगतिस्थाने प्रशस्तविहायोगतेढुण्डसंस्थानस्य स्थाने विकल्पेन पञ्चसंस्थानानां सेवार्तसंहननस्थाने पञ्चसंहननानां प्रक्षेपे पद्भिः संस्थानः षड्भिः संहननः प्रशस्ताप्रशस्तविहायोगतिभ्यां स्थिरास्थिराभ्यां शुभाशुभाभ्यां सुभगदुर्भगाभ्यां सुस्वरदुःस्वराभ्यामादेयानादेयाभ्यां यश-कीर्त्ययश-कीर्तिभ्यां भङ्गा अष्टाधिकषट्चत्वारिंशत्शतसङ्ख्या भवन्ति । सवैकोनत्रिंशदुद्योतसहिता त्रिंशद् भवति । अत्रापि भङ्गाः प्राग्वदष्टाधिकानि षट्चत्वारिंशच्छतानि । सर्वसङ्खथया तियपश्चन्द्रियप्रायोग्यबन्धस्थानेषु भगा द्विनवतिशतानि सप्तदशाधिकानि ९२१७ । सर्वस्यां तिर्यग्गतो सर्वसङ्खथया भङ्गास्त्रिनवतिशतान्यष्टाधिकानि ९३०८ । तदेवं व्याख्यातानि तियग्गतिप्रायोग्यानि बन्धस्थानानि । अथ मनुष्यगतिप्रायोग्याण्युच्यन्ते-तत्र यान्येव तियपश्चेन्द्रियप्रायोग्याणि बन्धस्थानानि तान्येव मनुष्याणां प्रायोग्याणि द्रष्टव्यानि, नवरं तिर्यग्गतितिर्यगानुपूर्वीस्थाने मनुष्यगतिमनुष्यानुपूव्यौं वक्तव्ये। तथा त्रिंशद्वन्धस्थाने त्रिंशत्तमं तीर्थकरनाम वक्तव्यमिति विशेषः । तत्र पञ्चविंशतिबन्धस्थाने प्रारबदेको भङ्गः। एकोनत्रिंशद्वन्धस्थानेऽष्टाधिकानि षट्चत्वारिंशच्छतानि, सेवकोनत्रिंशत्तीर्थकरनामसहिता त्रिंशद्भवति, परमस्यां संस्थानं समचतुरस्रमेव संहननं वजर्षभनाराचमेव विहायोगतिः प्रशस्तैव वाच्या, | ॥११८॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy