SearchBrowseAboutContactDonate
Page Preview
Page 1388
Loading...
Download File
Download File
Page Text
________________ SHORORDCCCCCC रालिकं मिथसत्कमन्तर्मुहत्तं च स्तोकत्वान्न विवक्षितं, ततः क्षपकश्रेणिप्रतिपक्यपेक्षयाष्टाविंशतिसत्तास्थानस्थावस्थानकालो द्वे षट्पष्टी सागरोपमाणां, यस्तु मिथ्यात्वं प्रतिपद्यते स पल्योपमासंख्येयभागमात्रेण कालेन सम्यक्त्वं निःशेषमुद्वलयति, तावच्च तत्सदिति तस्य | पल्योपमासंख्येयभागमात्राधिक द्वे षट्पष्टी सागरोपमाणामष्टाविंशतिसत्तास्थानस्यावस्थानकालः। एवं चतुर्विंशतिसत्तास्थानस्यापि भावनीयम् । नवरं योऽपि सागरोपमषट्षष्टिद्वयानन्तरं मिथ्यात्वं प्रतिपद्यते तस्यापि प्रथमसमय एवानन्तानुबन्धिबन्धसंभवाचतुर्विंश| तिसत्तास्थानमपयातीति परिपूर्ण द्वे षषष्टी सागरोपमाणां चतुर्विंशतिसत्तास्थानस्यावस्थानकालः । जघन्यतस्तु द्वे अप्यान्तमाँ हृतिके । तथाहि-अष्टाविंशतिसत्कर्मा वेदकसम्यक्त्वोपेतः सप्तक्षपणमारभमाणो यावन्नानन्तानुबन्धिनः क्षपयति तावदष्टाविंशतिरेव स|त्तास्थानं, अनन्तानुबन्धिषु क्षपितेषु तु चतुर्विंशतिः, साऽपि तावद्यावन्मिथ्यात्वं न क्षपयति, क्षपिते तु तस्मिंस्त्रयोविंशतिः। तदेवं चतुर्विशत्यष्टाविंशती जघन्यत आन्तमौहर्तिके । एकविंशतिसत्तास्थानमुत्कर्षतः साधिकत्रयस्त्रिंशत्सागरोपमस्थितिकम् । तथाहि-इह मनुष्यभवे सप्तकक्षयं कृत्वा सर्वार्थसिद्ध महाविमाने देवो जातः, तत्र च त्रयस्त्रिंशत्सागरोपमाण्यनुभूय पुनरपीह मनुष्यभवे समायातः, | ततो यावन्नाद्यापि क्षपक श्रेणिमारभते तावत्तस्यैकविंशतिरेव सत्तास्थानम् । जघन्यतस्त्वेतदप्यान्तमौहृत्तिकं, तच्च सप्तकक्षयानन्तरं क्षपकश्रेणिमारोहतो द्रष्टव्यम् । शेषाणां सत्तास्थानानां जघन्यत उत्कर्षतश्चान्तर्मुहूर्तमेव सत्तास्थानं प्राप्यते, तच्च सुप्रतीतमेव । तथाऽनादिमिथ्यादृष्टीनां षड्विंशतिसत्तास्थानमभव्यापेक्षयाऽनाद्यपर्यवसानं, भव्यापेक्षयाऽनादिसपर्यवसानं च द्रष्टव्यम् । तदेवं कृता कालप्ररूपणा, तत्करणाच्च समाप्तं मोहनीयम् । अथ नामकर्मणो बन्धादिस्थानानि वाच्यानि-तत्र याभिः प्रकृतिभिः सहिता नामकर्मणो बह्वयः प्रकृतयो बन्धमुदयं वा गच्छन्ति | ANDAR
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy