SearchBrowseAboutContactDonate
Page Preview
Page 1387
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥११३॥ मायायाः प्रथमस्थितिगतमावलिकामात्रं समयद्वयोनावलिकाद्विकबद्धं च सदस्ति, अन्यत्समस्तं क्षीणं, तदपि च सत् समयद्वयोनावलिकादिकेन कालेन क्षयं यास्यति, यावच्च न याति तावद्वे सती, क्षीणे तस्मिन्नेका, तदेवमेकविधवन्धकस्येमे द्वे त्रीणि चोपशमश्रेण्या मोहस्यश्रितानीति सर्वसंख्यया पश्च। अबन्धके च सूक्ष्मसम्पराये क्षपके एकं सत्तास्थानमेकप्रकृत्यात्मक, त्रीणि चोपशमश्रेण्याश्रितानीति चत्वारि। सत्तास्था. नानि एतेषामेव सत्तास्थानानामवस्थानकालमानमुच्यते-सप्तविंशतिसत्तास्थानस्याजघन्योत्कर्षमवस्थानकालः पल्योपमासंख्येयभागः । तथाहि-अष्टाविंशतिसत्कर्मणो मिथ्यादृष्टेः सम्यक्त्वे उद्वलिते सप्तविंशतिः सत्तास्थानमवाप्यते । तदनन्तरं यावन्नाद्यापि सम्यमि-122 थ्यात्वमुद्वलयितुमारभते तावत्सम्यग्मिथ्यात्वोदयमपि गच्छति । उक्तं च पञ्चसंग्रहमृलटीकायां-"उद्वलनाया अप्रारम्भे तस्य सम्यग्मिथ्यात्वोदयो भवति" इति । ततः सम्यग्मिथ्यादृष्टेरप्यन्तर्मुहतं यावत्सप्तविंशतिसत्तास्थानं प्राप्यते, अन्तर्मुहूर्त्तानन्तरं च सोऽप्यवश्यं | मिथ्यात्वं गच्छति । मिथ्यात्वं गतश्च सन् सम्यमिथ्यात्वमुद्रलयितुमारभते, पल्योपमासंख्येयभागमात्रेण च कालेन तन्निःशेषमुद लयति, यावच्च न निःशेषमुद्वलयति तावत्सदित्यजघन्योत्कर्ष सप्तविंशतिसत्तास्थानस्य पल्योपमासंख्येयभागः कालः । सम्यग्मिथ्यात्वे | चोद्वलिते षड्विंशतिः सत्तास्थानं, तस्य चावस्थानमुत्कर्षतो देशोनपुद्गलपरावर्धिकालं, ततः परमवश्यमौपशमिकं सम्यक्त्वं करण-16 जयपूर्वमासादयति, ततश्च भूयोऽप्यष्टाविंशतिसत्कर्मा भवति, जघन्यतस्तु पड्विंशतिसत्तास्थानमन्तर्मुहूर्तम् । तथाऽष्टाविंशतिचतुर्विंशतिसत्तास्थानयोरवस्थानकालो द्वे षट्पष्टी सागरोपमाणां,तथाहि-वेदकसम्यक्त्वान्वितस्याष्टाविंशतिसत्कर्मण एका षट्पष्टिं सागरोपमाणां | संपूर्य ततोऽन्तर्मुहूर्त सम्यग्मिथ्यात्वे स्थित्वा ततो भूयोऽपि सम्यक्त्वसहितामेकां षट्पष्टिं सागरोपमाणां संपूर्य स्थितस्य तस्य ततः ॥११३॥ | परमवश्यं क्षपक श्रेणेमिथ्यात्वस्य वा प्रतिपत्तिर्भवति, तत्र क्षपकश्रेणिप्रतिपत्तौ मिथ्यात्वादिक्षयादष्टाविंशतिसत्तास्थानमति, आन्त
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy