________________
ता आदौ निदिंश्यन्ते-अपर्याप्तकजातिपर्याप्तकगतिनामकर्मभिः प्रेरिता इव बह्वयः शेषप्रकृतयो बन्धमुदयं वोपयान्ति । तथाहिकर्मप्रकृतिः ॥
अपर्याप्तकनाम्नि बध्यमाने उदयप्राप्ते वा मनुष्यगतिप्रायोग्यास्तिर्यग्गतिप्रायोग्या वा बह्वयो नाम्नः प्रकृतयो बन्धमुदयं वोपयान्ति । नाम्नःबन्ध॥११४|| जातिनाम्नि चैकेन्द्रियादिजातिरूपे पादरसूक्ष्मादयः, पर्याप्तकनाम्नि च यशःकीर्त्यादयः, देवादिगतौ च वैक्रियद्विकादय इति ।।
| स्थानानि अत्रोदयस्थितेरियं वक्तव्यता-उदयसमयप्राप्तानामबाधाकालक्षयेणोदयो भवति, स च द्विधा प्रदेशतोऽनुभागतश्च । तत्रानुदयवतीनां प्रकृतीनां दलिकमबाधाकालक्षये प्रतिसमयमुदयवतीषु स्तिबुकसंक्रमेण संक्रमय्य यदनुभूयते स प्रदेशोदयः, स चानुपशान्तानामवसेयः, उपशान्तानां तु न भवति । अनुभागोदयश्च विपाकोदयः, स च नित्योदयानां सदा प्रवर्त्तते, शेषाणां तु भजनीयः । यस्तु प्रयोगोदय उदीरणापरनामा स विपाकोदये प्रवर्तमान एवं प्रवर्तते इति न पृथग्विवक्ष्यते । अथ याः प्रकृतयो देवगत्या सह बन्धमुदयं वा गच्छन्ति ता उच्यन्ते-अशुभास्थिरसमचतुरस्रपराघातोकासत्रसदशकवर्णगन्धरसस्पर्शतैजसकार्मणागुरुलघुनिर्माणोपघातायशःकीर्तिपञ्चन्द्रियजातिवैक्रियद्विकाहारकद्विकशुभविहायोगतिदेवानुपूर्वीलक्षणा द्वात्रिंशत्प्रकृतयो देवगत्या सह बन्धमुदयं वा गच्छन्ति । यदा तु तीर्थकरनामापि बध्यते तदा तत्सहितास्त्रयास्त्रिंशत्प्रकृतयो वेदितव्याः । तथा यदा देवयतौ स्थितः सँस्तीर्थकरनाम बध्नाति तदा तीर्थकरनामसहिता देवद्विकवैक्रियद्विकाहारकद्विकरहिताः शेषा देवगतिप्रायोग्याः अष्टाविंशतिबध्यन्ते, मनुजद्विकौदारिकद्विकाद्यसंहननलक्ष | 3. | णाश्च पञ्चति सर्वसंख्यया त्रयस्त्रिंशद्रध्यन्ते । तथा सूक्ष्मेण साधारणेनापर्याप्तेन वा सह न यशःकीति बध्नाति, नाप्युदयेनानुभवति, न चाहारकद्विके बध्यमाने उदयप्राप्ते वाऽयशःकीय॑स्थिराशुभरूपास्तिस्रः प्रकृतयो बन्धमुदयं वाऽऽयान्ति । अथ बन्धमधि- ला॥११४॥ कृत्य नरकगतिसहचराः प्रकृतय उपदर्यन्ते-हुण्डं वर्णगन्धरसस्पर्शा अगुरुलघुतैजसकार्मणोपघातनिर्माणान्यस्थिराशुभदुर्भगानादेयाय
IN