________________
:
e
c
संजपसु न लब्भइ, कह ? भन्नइ-संखेज्जवासाउपसु खाइगसम्मद्दिट्टी न उववज्जइ, असंखेज्जवासाउएसु उववजेज्जा, तस्स देसविरई त्थि ति" । ये तु मनुध्या देशविरतास्तेषां पञ्चकोदये त्रीणि सत्तास्थानानि एकविंशतिचतुर्विंशत्यष्टाविंशतिरूपाणि । षट्कोदये सप्तोदये च प्रत्येकं पश्चापि सत्तास्थानानि । अष्टकोदये चैकविंशतिवर्जानि शेषाणि चत्वारि सत्तास्थानानि भवन्ति, तानि चाविरतसम्य| ग्दृष्टयक्तया दिशा भावनीयानि । एवं नवकबन्धे प्रमत्तेऽप्रमत्ते च प्रत्येकं चतुष्कोदये त्रीणि त्रीणि सत्तास्थानान्यष्टाविंशतिचतुर्विंश| त्येकविंशतिलक्षणानि । पञ्चकोदये षट्कोदये-च पञ्च पश्च सत्तास्थानान्यष्टाविंशतिचतुर्विंशतित्रयोविंशतिद्वाविंशत्येकविंशतिलक्षणानि । | एतान्येवैकविंशतिवर्जानि शेषाणि चत्वारि सप्तकोदये प्रामुक्तदिशा भावनीयानि । अपूर्वकरणस्य तु नवबन्धकस्य त्रीण्युदयस्थानानि | चत्वारि पञ्च षट् चेति । एतेषु च त्रिष्वपि प्रत्येकं त्रीणि त्रीणि सत्तास्थानान्यष्टाविंशतिचतुर्विशत्येकविंशतिलक्षणानि द्रष्टव्यानि ।
अपूर्वकरणो हि वेदकसम्यग्दृष्टिन भवति किं त्वौपशमिकसम्यग्दृष्टिः क्षायिकसम्यग्दृष्टिा । तत्रौपशमिकसम्यग्दृष्टरष्टाविंशतिचतुर्विंशती | एव प्राग्वद्भावनीये, क्षायिकसम्यग्दृष्टेस्त्वेकविंशतिः। पञ्चचतुविद्वयेकबन्धकेवबन्धके च सूक्ष्मसम्पराये उपशान्तमोहे च प्रत्येकं त्रीणि |त्रीणि सत्तास्थानान्यष्टाविंशतिचतुर्विशत्येकविंशतिलक्षणान्युपशान्तसप्तकमुदलितानन्तानुबन्धिनं क्षीणसप्तकं चाधिकृत्य यथायोगं द्विको | दये एककोदयेऽनुदये चोपशमश्रेण्या भवन्ति । तथा पञ्चविधबन्धकस्यानिवृत्तिबादरक्षपकस्य प्रागुक्ताया एकविंशतेरष्टसु कषायेषु क्षीणेषु
त्रयोदशकं सत्तास्थानं, ततो नपुंसकवेदे क्षपिते द्वादशकं, ततः स्त्रीवेदे क्षपिते एकादशकमिति, एतान्यन्यान्यपि त्रीणि सत्तास्थानानि | त्रीणि च प्रागुक्तानीति सर्वसंख्यया पश्चवन्धकस्य षद् सत्तास्थानानि । तथेह यः कश्चिन्नपुंसकवेदेन क्षपकश्रेणिं प्रतिपन्नः, स स्त्रीवेदनपुंसकवेदौ युगपत् क्षपयति, तयोयुगपत्क्षयसमकालमेव च पुरुषवेदस्य बन्धो व्यवछिद्यते, तदनन्तरं पुरुषवेदहास्यादिषट्के युगपत ||
DSDISe