SearchBrowseAboutContactDonate
Page Preview
Page 1383
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१११॥ पश्च सत्तास्थानानि-अष्टाविंशतिश्चतुर्विंशतिस्त्रयोविंशतिाविंशतिरेकविंशतिश्च । तत्राष्टाविंशतिरौपशमिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां च, चतुर्विंशतिरप्युभयेषां, नवरं विसंयोजितानन्तानुबन्धिनां, त्रयोविंशतिवेदकसम्यग्दृष्टीनामेव क्षपणायोद्यतानामनन्तानुबन्धिषु मोहस्य सत्तास्थामिथ्यात्वे च क्षपिते सति, द्वाविंशतिरपि तेषामेव सम्यग्मिथ्यात्वे क्षपिते, स च द्वाविंशतिसत्कर्मा सम्यक्त्वं क्षपयस्तच्चरमग्रासे वर्त्त नानि | मानः कश्चित्पूर्ववद्धायुष्कः कालमपि करोति, कालं च कृत्वा चतसृणां गतीनामन्यतमस्यां गतावुत्पद्यते । उक्तं च-"पट्टवगो उ मणु- 16 स्सो णिवगो चउसु वि गइसु" । ततो द्वाविंशतिश्चतसृष्वपि गतिषु प्राप्यते । एकविंशतिः क्षायिकसम्यग्दृष्टीनाम् । एवमष्टोदयेऽपि मिश्रदृष्टीनामविरतसम्यग्दृष्टीनां चोक्तरूपाण्यन्यूनानतिरिक्तानि सत्तास्थानानि भावनीयानि । एवं नवोदयेऽपि, नवरं नवोदयोऽविरतानां वेदकसम्यग्दृष्टीनामेवेति । तत्राष्टाविंशतिचतुर्विंशतित्रयोविंशतिद्वाविंशतिलक्षणानि चत्वारि सत्तास्थानानि वाच्यानि । त्रयोदशबन्धकानां देशविरतानां चत्वायुदयस्थानानि, तद्यथा-पञ्च पद सप्ताष्ट । तत्र देशविरता द्विधा तियञ्चो मनुष्याश्च । तत्र तिरश्चां चतुर्वप्युदयेषु द्वे द्वे सत्तास्थाने अष्टाविंशतिश्चतुर्विंशतिश्च । तत्राष्टाविंशतिरौपशमिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा। तत्रौपशमिकसम्यग्दृष्टीनां प्रथमसम्यक्त्वेन सह देशविरतिप्रतिपत्तिकाले, वेदकसम्यग्दृष्टीनां त्वष्टाविंशतिः सुप्रतीता । चतुर्विंशतिरनन्तानुवन्धिषु विसंयोजितेषु ६ वेदकसम्यग्दृष्टीनामवगन्तव्या। शेषाणि तु त्रयोविंशत्यादीनि सत्तास्थानानि तिरथा न संभवति, तानि हि क्षायिकसम्यक्त्वमुत्पादयतः प्राप्यन्ते, न च तिर्यशः क्षायिकसम्यक्त्वमुत्पादयन्ति, किन्तु मनुष्या एव । अथ मनुष्यः क्षायिकसम्यक्त्वमुत्पाद्य यदा तियक्षुत्पद्यते तदा तिरथोऽएकविंशतिः कथं न प्राप्यते ? मैवं, क्षायिकसम्यग्दृष्टेस्तियत्पित्सोरसंख्येयवर्षायुष्केष्वेव समुत्पादान , ॥१११॥ तत्र च देशविरत्यभावाद्देशविरतेषु तिर्यक्षु त्रयोविंशत्यादिप्रतिषेधस्य युक्तत्वात् । उक्तं च सप्ततिकाचूर्णी-“एगवीसा तिरिक्खेसु संजया MONACSCADDEDGE
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy